________________
१३
एवमष्टोत्तरं शतं बहुकविदत्ताः पूरिताः समस्याः श्रीअमरेण ।
ततो राज्ञाभिहितम् – 'सत्यं कविसार्वभौमः श्रीअमरः । तत्र दिने संध्यावधि सभा निषण्णा स्थिता । राजा लङ्घितः सभ्यलोकोऽपि । रसावेशे हि कालोऽज्ञैर्गच्छन्नपि न लक्ष्यते ।
द्वितीयदिने सद्यः काव्यमयैः प्रमाणोपन्यासैः प्रमाणिका जिताः । तृतीयदिने राज्ञा पृष्टम् - 'अस्माकं संप्रति का चिन्तास्ति' इति कथ्यताम् । अमरेण भणितम् – 'देव,
क्षेत्रे प्रभासे सुकृताधिवासे स्वकारिता (?) ब्रह्मपुरीगृहेषु ।
प्रक्षाल्य पादौ प्रददौ ससौधं नानाकनाम्ने कविपण्डिताय ॥ ८ ॥ ( युग्मम् ) उपेयुषा वेदपुराणशाणनिघर्षणं संश्रितहारलक्ष्मीः ।
विभाति येन द्विजनायकेन श्रीवीसलब्रह्मपुरी पुरेऽस्मिन् ॥ ९ ॥ वन्द्ये विश्वजनेन मूर्धनि सरस्वत्या दधानः पदं प्राप्याब्धि किल वाडवः परमभूदात्मंभरिर्भार्गवः । नानाकः पुनरेष तां भगवतीं मूर्ध्ना नमन्नागरो
वर्ण्यो विप्रशतोदरंभरिरहो तीरे वसन्वारिधेः ॥ १० ॥ गोविन्दतनयः सोऽयं प्रद्युम्नोऽभूत्किमद्भुतम् । चित्रमेतद्यदेतस्य कान्तः शान्तरसोऽधिकम् ॥ ११ ॥ स्नानं यस्य सरस्वतीशुचिजले पूजा च सोमेश्वरे
व्यर्थे नातिथयो व्रजन्ति सुकृतश्रीसंग्रहाद्यगृहात् । वित्तं यस्य च साधुबन्धुसुहृदां साधारणं सर्वदा
नानाको धरणीतले समधिकं धन्यः स मान्यः सताम् ॥ १२॥ स्वस्योच्चैः प्रतिपर्व शालिकणिकापिण्डेन सुश्रद्धया सार्धं वेदपुराणपाठनिपुणैः पुण्यापणैर्ब्राह्मणैः । श्राद्धं तेन विधीयमानमतुलं सारस्वते सैकते
दर्श दर्शमतीव हृष्यति दिवि श्रीवीसलक्ष्मापतिः ॥ १३ ॥ मुखे यदीये विमलं कवित्वं बुद्धौ च तत्त्वं हृदि यस्य सत्त्वम् । करे सदा दानमयावदानं पादे च सारस्वततीर्थयानम् ॥ १४ ॥ काव्येषु नव्येषु ददाति कर्ण प्राप्नोति यः संसदि साधुवर्णम् । विभूषणं यस्य सदा सुवर्ण प्राप्ते तु पात्रे न मुखं विकर्णम् ॥ १५ ॥ रचित उचित उच्चैर्यस्य भक्त्यार्चनाय
युतिजितकुमुदालि: शालिजस्तण्डुलौघः ।
नयति सुमनसः श्रीसोमनाथस्य कामं
शिरसि शशिकलायाः कौमुदीर्मेदुरत्वम् ॥ १६ ॥
१. एतत्प्रशस्ति निर्माणसमयात्प्रागेव वीसलनरपतिः स्वर्गे जगामेत्यनेन प्रतीयते.