________________
१४६
काव्यमाला |
वृन्दावनाधिदेव्यस्तत्कुम्भिकुम्भैस्तदास्मरन् । कृष्णालोकोच्छ्रसद्गोपीपीनवक्षोजविभ्रमान् ॥ ८३ ॥ तस्य द्विपमदैः श्यामैः शत्रुस्त्रीसाञ्जनाश्रुभिः । पृथक्प्रवाहिभिस्तत्र त्रिस्रोता यमुनाप्यभूत् ॥ ८४ ॥
मत्स्यराजाहिराजादिदेशक्लेशोपदेशकः । चर्मण्वती नदीतीरभूप भोजाजकुञ्जरः ॥ ८९ ॥
अथायमुच्छलडूलिच्छायासुखचलद्बलः । ययाववन्तिदेशाय वहिदेशीयविक्रमः ॥ ८६ ॥ ( युग्मम्) विन्दानुविन्दराजेन्द्रद्वयीजयमयीमिह । स सिप्रापुलिनोत्सङ्गरङ्गे कीर्तिमनर्तयत् ॥ ८७ ॥ अयमुज्जयनीवारनारीनेत्रोत्पलार्चितः ।
f
तत्रानर्च महाकालं चञ्चद्रोमाञ्चकञ्चुकः ॥ ८८ ॥ माहिष्मत्यां ततो नीलनृपेण कलयन्कलिम् | स व्यधाद्रुधिरै रेवामपि कोपारुणामिव ॥ ८९ ॥ नीलस्य पूर्वज प्रत्तवरबद्धोऽग्निरज्वलत् । साहाय्यायाथ माद्रेयपृतनान्तः प्रतापवान् ॥ ९० ॥ स्वं विलोक्यानलज्वालामालाभिर्विह्वलं बलम् । सहदेवः शुचिर्भूत्वाब्रवीदिति हुताशनम् ॥ ९१ ॥ समारम्भस्त्वदर्थोऽयं स्वाहाप्रिय नमोऽस्तु ते । मुखं त्वमेव देवानां यज्ञविघ्नाय नार्हसि ॥ ९२ ॥ इत्यादिस्तुतिभिस्तस्य प्रशान्ते हव्यवाहने । मौलिना नीलभूपालः पालयामास शासनम् ॥ ९३ ॥ पुरं करदं कृत्वानश्वरं पौरवेश्वरम् । कैरेवादीन्वशीकृत्य सुराष्ट्रायां ततोऽगमत् ॥ ९४ ॥ सुराष्ट्रेशमतोऽजैषीन्नृपं भोजकटे पुरे ।
१. 'देवी यत्कुम्भिकुम्भैस्तदास्मरत्' ख. २. 'कौशिकान्विवशीकृत्य' ख ग .