SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ २सभापर्व-२सर्गः] बालभारतम् । उत्तालकर्णभूपालावकर्णनरतस्ततः । पौण्डूपं रणसेवासु वासुदेवं जिगाय सः ॥ ७१ ॥ कृती कौशिककच्छादिदेशक्रमितविक्रमः । रङ्गदब्धितरङ्गेषु वङ्गेषु क्रमतोऽगमत् ॥ ७२ ॥ तस्याङ्गिपूजानिर्मुक्तमुकुटेन महौजसः । आज्ञा समुद्रसेनेन राज्ञा मूनि न्यधीयत ॥ ७३ ॥ चञ्चद्वीचिकरोत्क्षिप्तैस्तस्य नानामणिवजैः । गाम्भीर्यनिर्जितः पूर्व सागरोऽपि करं ददौ ॥ ७४ ॥ स गङ्गासागरन्यस्ते जयस्तम्भे यशोगजम् । स्वयमाकलयामास पूर्वदिक्करिजित्वरम् ॥ ७९ ॥ दीप्तस्तस्य प्रतापाग्निस्तत्र सिन्धूमिमारुतैः । उद्यान्त्यनुदिनं यस्य स्फुलिङ्गा इव भानवः ॥ ७६ ॥ इत्यशेषां दिशं जित्वा ववलेऽसौ बैलाम्बुधिः । दोर्दण्डदण्डितोदण्डमण्डलाधिपमण्डलः ॥ ७७ ॥ इति पूर्वदिग्विजयः॥ सहदेवोऽपि चतुरश्चतुरङ्गचमूवृतः । वीरो दक्षिणदिग्देशजैत्री यात्रामसूत्रयत् ॥ ७८ ॥ शृङ्गान्तान्पातयंस्तुङ्गान्गिरीनरिमहीभृताम् । अशक्याश्रयणांश्चके तस्य निःशाणनिःस्वनः ॥ ७९ ॥ हरिचामरकुम्भीन्द्रकर्णस्यन्दनकेतुजैः । क्रमाच्चमूरजो निन्ये मरुद्भिः परमं नमः ॥ ८०॥ शूरसेनेषु विद्वेषिशूरसेनां रसेन सः । अजयजयदन्तीन्द्रालानगोवर्धनाचलः ॥ ८१ ॥ मथुरानगरीनाथनारीभिः स जयोद्धरः । सवैलक्ष्यं सहर्ष च दृष्टः सौभाग्यभाग्यभूः ॥ ८२ ॥ १. भूपालोऽवक' ख, २. 'पौण्ड्क' ख. ३. 'महाम्बुधिः' ख. १९
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy