________________
१४४
काव्यमाला |
श्रोणिमन्तं कुमारेषु कोशलेषु बृहद्बलम् । विनिर्जित्य स तेजस्वी ययावुत्तरकोशलान् ॥ १९ ॥ संगराभङ्गुरैरीशैः सर्वदा तत्र गर्विताम् । अलज्जयदयोध्यां स दीर्घप्रज्ञं नृपं जयन् ॥ ६० ॥ सरयूसरिता तत्र तद्दन्तिमदमिश्रया । स्वर्धुनी प्राप संभेदं कालिन्द्येव द्वितीयया ॥ ६१ ॥ गोपालकच्छराजादिराजराजीवचन्द्रमाः । जगामोद्दानसंग्रामरसी वाराणसीमसौ ॥ ६२ ॥
जित्वा सुमन्तुनामानमुद्दामानमिलापतिम् । कीर्तिः प्रतेने तेनेह द्वितीयेव वाहिनी ॥ ६३ ॥ सोऽत्र विश्वेश्वरं नत्वा प्रतापयशसी दधौ । तद्भालनेत्र बालेन्दुप्रभयेवाद्भुतप्रभे ॥ ६४ ॥ तेनं तेजोऽग्निभिर्मत्स्यदेशादिक्षितिपेन्धनैः । चिरं देहे विदेहेषु जनको मिथिलाधिपः ॥ ६९ ॥ कृष्टोग्रधन्वनो जाग्रज्जनके मिथिलापुरे । रामस्येवाभवत्तस्य करग्रहमहोत्सवः ॥ ६६ ॥ अथेन्द्रपर्वते सुह्मान्प्राच्यसुह्मान्सुपक्षकान् । जिगाय मागधान्दण्डदण्डधारधराघवौ ॥ ६७ ॥ गिरिव्रजे जरासंधसुतं कृत्वा करप्रदम् । स तैरेव वृतः सर्वैगडदेशानुपाद्रवत् ॥ ६८ ॥ कम्पयन्भूभृतः सैन्यैः स्थावराञ्जङ्गमानपि । ततः प्रापष गौडेषु चम्पां निष्कम्पसंपदम् ॥ ६९ ॥
तं वीक्ष्य प्राप्तविषयं विषमायुधविग्रहम् । स्त्रीलोक इव चम्पायाः कम्पार्तः पार्थिवोऽभवत् ॥ ७० ॥
१. 'तस्य' क.