SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ २सभापर्व-२सर्गः] बालभारतम् । बद्धाः सिषिचुरक्षोटवृक्षाली तद्विपा मदैः। अपकारिष्वपि व्यक्तं महतामुपकारिता ॥ २४ ॥ कृत्वाथ दक्षिणं क्षीणशौर्य काम्बोजभूपतिम् । नृपान्पार्थो जिगायाथ प्रागुदीच्यां दिशि स्थितान् ॥ २५ ॥ ओजः परमकाम्बोजलोहद्रोहभवं भजन् । 'रिषीकेषु हृषीकेशविक्रमः स क्रमाद्ययौ ॥ २६ ॥ हरितः स हरीनष्ट प्राप्य तत्प्रभुढौकितान् । रवेरप्यधिको रेजे तेजःक्रान्तजगत्रयः ॥ २७ ॥ एतद्दिग्जयसंजातं यशो जातमिवात्मनः । अथारुक्षत्तुषाराद्रिं शुभ्रमभ्रंकषं विभुः ॥ २८ ॥ . एषां नास्योचितं गात्रमास्यं गात्रोचितं न वा । इत्यत्र विस्मितास्तस्य तुरगान्वीक्ष्य किंनराः ॥ २९ ॥ आसन्नोत्तरदिग्दन्तिमदगन्धोद्धुरक्रुधः । नीरदेषु रदाघातं तत्र तद्विरदा व्यधुः ॥ ३० ॥ तत्र तद्रथचक्राध्वसमूहप्रवहत्पयाः । सहस्रमुखतां मन्ये तदादि युधुनी दधौ ॥ ३१ ॥ तद्वीरा शौर्यसोष्माणो यत्र यत्र ददुः पदम् । तत्र तत्रावहत्स्वच्छकीर्तिस्तेषां हिमच्छलात् ॥ ३२ ॥ चक्रे भूर्जसदृग्विन्दुबन्धुरैः सिन्धुरैरधः । सोऽद्रिस्तदीयैर्दानालिध्वनिधिकृतकिंनरैः ॥ ३३ ॥ मिया शैलाधिदेवस्य दिग्गजैरप्यलैंम्भिताम् । तत्करिक्रीडया पीडां सेहिरे देवदारवः ॥ ३४ ॥ जित्वाथ निष्कुटं शैलं स क्रान्त्वा श्वेतपर्वतम् । देशे किंपुरुषावासे द्रुमपत्रं ततोऽजयत् ॥ ३५ ॥ १. 'हृषीकेषु' ख. २. 'दरदैः सह काम्बोजमजयत्पाकशासनिः' ग. ३. 'लम्भिताः' क. ४. 'जित्वा स ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy