________________
१४०
काव्यमाला ।
कृत्वा कामं दिनान्यष्टौ कामरूपेश्वरो रणम् । धनंजये जयं पूर्वं स ततो व्यतरद्धनम् ॥ १३ ॥ शर्वपर्वतखर्वत्वकरद्विपवरोऽथ सः । कुलूतपुरभूपालं बृहन्तं जितवान्युधा ॥ १४ ॥ रामदेवसु नामादिराजराजिजयोज्ज्वलः । सेनाबिन्दुं दिवप्रस्थपुरे सत्याभिधं व्यधात् ॥ १९ ॥ कृत्वा तु पौरवं ध्वस्तगौरवं पर्वतेश्वरम् । जिष्णुरुत्सवसंकेतांश्चक्रेऽनुत्सवकेतनान् ॥ १६ ॥ रागिण्यः स्मेरकाश्मीरैः श्लथीभूतपतिक्रियाः । काश्मीरभूमयः कामतप्तास्तमभजंस्ततः ॥ १७ ॥ अस्त्रैस्तेनारिनारीणां द्विरदानां मदाम्बुभिः । तत्र मङ्घर्मयोर्वमुसरितस्त्रिगुणीकृताः ॥ १८ ॥ अवीरीकृतकाश्मीरः शौर्यमोहितलोहितः । दशमण्डलदण्डोग्रस्त्रिगर्तभटकर्तनः ॥ १९ ॥ गतोऽयमिति वैरीभसिंहः सिंहपुरं पुरम् । युधि चित्रायुधं भूपं तत्र चित्रायुधं व्यधात् ॥ २० ॥
अथ चोलचलाक्षीणां चक्षुश्चञ्चलतां क्षिपन् । नव्यवैधव्यसंबन्धं कुर्वन्बाहीकयोषिताम् ॥ २१ ॥ - सिक्तकीर्तिलतः शिष्टभ्रूणहूणीदृगम्बुभिः । दरदोदरदीर्घोत्थनिश्वासो महः शिखी ॥ २२ ॥
ययौ काम्बोजमोजस्वी रङ्गत्तुङ्गतुरङ्गमम् । लक्ष्मीलिप्सुरसौ जिष्णुरुत्तरङ्गमिवार्णवम् ॥ २३ ॥
( युग्मम्)
१. 'सर्व' ख. २ - 'अप्यपौरुषम् ' ख. ३. 'केतनातू' ग.
(विशेषकम् )