________________
काव्यमाला।
तत्र गर्जद्गजालोकादस्थानाब्दभयोत्थितैः । यशोभिरर्जुनस्येव नभश्छन्नं सितच्छदैः ॥ ३६ ॥ सुवर्णसिकताखेलैः स्वर्णपद्मावतंसनैः । वीरास्तत्र बभुर्मूर्तदीप्ततेजोवृता इव ॥ ३७॥ से देशे हाटके कीर्तिसुभगंभावुकोद्यमः। ' प्रसह्य गुह्यकाञ्जित्वा सरो मानसमासदत् ॥ ३८॥ स्फटिकाद्रौ तटीबिम्बद्विगुणायितसैनिकः । ततोऽलकापुरीद्वारि स निवेशान्यवेशयत् ॥ ३९॥ तटीषु वर्णसादृश्याददृश्यदशनानिह । निजबिम्बान्वशाबुध्या तंत्र तद्दन्तिनोऽस्पृशन् ॥ ४० ॥ कर्णानिलोल्लसद्दानमषीबिन्दुनिवेशतः । तविपैरलकावप्रे तत्प्रशस्तिरलिख्यत ॥ ४१ ॥ यच्छन्धनान्यसंख्यानि तस्य स्वपुरभङ्गभीः । तदा धनद इत्याख्यां दधौ सत्यां धनाधिपः ॥ ४२ ॥ जित्वा गन्धर्वदेशं स गन्धर्वनगरेऽगृहीत् । हयांस्तित्तिरकल्माषान्मण्डूकाख्यान्बिलोद्भवान् ॥ ४३ ॥ उत्तरं हरिवर्षे तु जिगीषुरथ फाल्गुनः । दिव्यैनरैः करं दत्त्वा बहुरत्नानि वारितः ॥ १४ ॥ स शंभुनन्दनाभ्यासविलासस्तम्भविभ्रमम् । आरोपयज्जयस्तम्भमिह निर्दम्भविक्रमः ॥ ४५ ॥ इत्युत्तरहँरिज्जैत्रः शंकरेणापि शङ्कितः । उत्ततार स कैलासशैलादैलविलार्चितः ॥ ४६ ॥
इति उत्तरदिग्विजयः॥
-
१. अयं श्लोकः ख-पुस्तके नास्ति. 'तत्र गर्ज' इत्यतः प्रागेव ग-पुस्तके. २. 'निवेशं न्य ग. ३. 'मुदा' ख-ग. ४. 'तथ्यां' ख-ग. ५. 'काख्याशिलो' ख; 'काख्यशिलो' ग. ६. 'हरिं जैत्रः' ग.