________________
१ आदिपर्व - १२ सर्गः ]
बालभारतम् ।
प्राविप्रो मन्दपालस्त्रिदिवभुवमगात्तत्र निष्पुत्र इत्यापायं नैवानपायं फलमुरुतपसां बाल्यतो ब्रह्मचारी । तत्कृत्वा शार्ङ्गरूपं द्रुतसुतकृतये शाङ्गिकायां स्म सूते यत्पुत्राणां चतुष्कं प्रणुतिभिरमुनामोचि वस्ततस्तत् ॥ ९१ ॥ वह्निः शार्ङ्गश्वसेनोरगमयदनुजान्षडिना खाण्डवं त
१२९
द्दग्ध्वा षडासराणि क्षयकुपितमहाकालभालाक्षिभीमः । षडुकप्रायमूर्ती कुरुकुंकुरकुलौ तूर्णमापृच्छय वीरौ
धीरौ षटुक्रितोऽपि प्रकृतशुचिरुचिः स्वं पदं प्राप हृष्टः ॥ ९६ ॥ भेजे श्रीजिनदत्तसूरि सुगुरोरर्हन्मतार्हस्थितेः पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती ।
तत्प्रज्ञात्मनि बालभारतमहाकाव्ये महेच्छप्रियं
निर्याति स्म रसैः सुधोर्मिसरसैः स्वर्वादि पर्वादिमम् ॥ ९७ ॥ (सैर्गा द्वादश तैरेकं सहस्रनवशत्यपि । अष्टेत्यनुष्टुभां संख्या निश्चितात्रादिपर्वणि II)
इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के आदिपर्वणि खाण्डववनवर्णनो नाम द्वादशः सर्गः ।
१. कुकुरा यादवाः. २. श्लोकोऽयं क पुस्तके त्रुटितः.
१७