________________
१२८
काव्यमाला । अपि नीरनामभृति वैरभवं बत बिभ्रदौर्व इव तत्र वने । दवदम्भतोऽज्वलदुदग्रशिखाततिरब्दमार्गमपि दग्धुमनाः ॥ ८३ ॥ ज्वलितस्य तस्य दहनस्य भयाद्गहनत्विषा कमलकोमलया। ध्रुवमन्वसारि शिशिरा सविधे यमुना धुनी तदधुनाप्यसिता ॥ ८४ ॥ दवपावकप्रबलतापहता यमुनापि मङ्क्ष विपिनान्तरतः । गगनं जगाम परिरब्धुमिव धुधुनीसखीमसमधूममिषात् ॥ ८५ ॥ विपिनप्रभूततरभूतपलग्रसनोत्थतृष्ण इव कृष्णपथः । हदकूपसिन्धुसरसीषुप्रसादपिबत्ययस्वयमसेचनकम् ॥ ८६ ॥ व्यथितस्तदाविततदावशादिवसाधिपोऽपि दिवि तापभरैः । न लभेत शान्तिमधुनौपि धुनीधवमध्यसंविशननिःसरणैः ॥ ८७ ॥ परितापसंकुचदशेषदशाकृशवक्रिताकृतिरतिग्मरुचिः । अभजत्तदा मदनवैरिशिरस्तटिनीतटं ज्वलति तत्र वने ॥ ८ ॥ स दवस्तदा दिवि तथा परितः परिताप्य पित्तमदितोडुततेः । अधुनापि भानुमसहिष्णुरिव प्लवते यथा वचन सा दिवसे ॥ ८९ ॥ क्षयमित्यवेक्ष्य शिखिमैव्यवशान्मृगमेकमेव पवनश्चलितुम् । दवतस्ततः किल विकृष्य तदा निदधौ सुधारुचि स चिह्नमभूत् ॥९०॥ घनतद्वनज्वलनतप्तधरातलसंगसंगतकृशानुकणम् ।। अधुनापि भाति फणिराजफणापटलं प्रदीप्तमिव रत्नमिषात् ॥९१ ॥ अमुना क्षयाभिनयिना शिखिना हरिरप्यतापि सविधे स तथा । जननान्तरेऽप्यनिशमेव यथा ध्रुवमब्धितोयशयनोऽयमभूत् ॥ ९२ ॥ ज्वलनोऽप्यतिज्वलनतः स तदा ध्रुवमातुरः स्वपरितापभरैः । अविशत्पयोधिर्मपि यःशमितस्तदगात्प्रतीतिमयमौर्व इति ॥ ९३ ॥ अरण्यतः पार्थ शरण्य पाहि मां हिमांशुहारीणि यशांसि वर्धय । मयो भयेनेति वदन्कृशानुना व्यमोचि दैत्यो नमुचेः सहोदरः ॥१४॥ १. वनशब्दस्य नीरवाचकतामधिकृत्येयमुक्तिः. 'वनजायताक्ष्यः-' इत्यादौ तथादर्शनादप्रयुक्तत्वदोषेऽपि निरस्तः. २. 'अयशः शमितः' ग.