________________
१आदिपर्व-१२सर्गः] बालभारतम् ।
१२७ परितप्तदीर्णचलितस्वलितप्रतिशस्त्रराशिभिरथोग्रतरैः । नरमार्गणैर्विधुरिता युधि ते ययुरिन्द्रमेव शरणं त्रिदशाः ॥ ७१ ॥ अथ विक्रमेण तनयस्य तदा मुदितो विशेषबलदर्शनधीः । बलसूदनः कृतककोपकणः क्षणमश्मवृष्टिमसृजन्नभसः ॥ ७२ ॥ शरजालकं किमपि संभ्रमतो विजयी ववर्ष तदमर्षनिधिः। अपिषत्पतत्रपवनेन शिलाः परमाणुवत्क्वचन चिसिपिरे ॥ ७३ ॥ अथ मेरुशृङ्गमुरु पार्थभिदे मुमुचे रुषेव नमुचेषिता ।। दिवि लोहगोलकमिव ज्वलितोजवलदन्तरं तरलितत्रिजगत् ॥ ७४ ॥ अथ पार्थबाणततिभिः पतिते दवसीम्नि तत्र शिखरे महति । अपि कल्पशाखिभिरपूरि नहि स्वमनःप्रकल्पितमिव त्रसनम् ॥ ७५ ॥ बलशत्रुरम्बरगिरानुभवैरपि दुर्जयो नरहरी कलयन् । अथ मुक्तसंगररसप्रसरस्त्रिदशैः समं त्रिदिवसीम्नि ययौ ॥ ७६ ॥ निरपायमग्निरथ संज्वलितो नरविक्रमस्मरणकम्पिशिराः । मरुदध्वमूनि विललास रणापसृतं विलोकयितुमिन्द्रमिव ।। ७७ ॥ जितशक्रयोर्मुरजिदर्जुनयोवलितः स कश्चन महोदहनः । यशसातयोविंशदितो हिमवानिव यत्पुरो दवशिखी स बभौ ॥ ७८ ॥ दृढदावपावकभवानि बभुर्मलिनानि धूमवलयान्यभितः ।। दिवि मूर्तिमन्ति समिति त्रसतो नवदुर्यशांसि सुरभर्तुरिका ७९ ॥ यदुपानि जम्भमुखदैत्यजयादिवि वासवेन हिमहारि यशः । इषुभिनरेण दलितस्य कणैरिव तस्य तारकगणैः शुशुभे ॥ ८० ॥ . मदसिंहनादमथ तो दधतुर्नरकेशवौ जयरसेन तथा। अनुसंगतौ किमु रणाय भटाविति शङ्कितं दिवि यथा विबुधैः ।।८१॥ वनजीवनिर्गमनिषेधकृते स्थितयोस्तयोरथ रथस्थितयोः । दिवि मूर्तिमान्हुतवहो जटिलः प्रमदी जगर्न च वैशाश्च पपौ ॥ ८२ ॥ १. 'अति' क. २. 'वनजीवि- क. ३. 'वसाश्च' इति पाठः साधीयान्. वसा वपा.