________________
१२६
दिवि दैवतेषु कुपितेषु पुरः फणिदैत्यराक्षस मनुष्यकुलैः । विजयी विभुस्त्रिजगतीसुभटैः कटरि व्यधत्त युधमस्त्रसखः ॥ ९८ ॥ निजशस्त्रपाततरलेषु तदा त्रिजगद्भटेषु विकटेषु रुषा क्षयवारिवाह इव वासवभूरिपुवृष्टिमष्टसु सदिक्षु दधौ ॥ १९ ॥ स्वयमुद्धृतेन युधि कोऽपि चलञ्ज्वलदङ्घिपेण गिरिणा फलभुक् । नरबाणपातहतबाहुतया पतता व्यपाति निरदायि ततः ॥ ६ समिति त्रसन्नरशरैः शमनः करलम्बितलथितदण्डतया । नर एव वीर इति भूषितवान्नररेखया हृदवनिं महताम् ॥ ६१ ॥ परजीवितच्छिदुरकर्तानिकाभिधयन्त्रलोलरसनायुगलः ।
11
युधि कालपाश इव पण्डुभुवा विशिखैर्गणः फणभृतां बिभिदे ॥३२॥ अभजद्भियं भृशमपूर्वचरीं नरवाणदौत्यघटितां धनदः । इति तस्य पाणिकृतयापि तदा गदया रुषेव दिवि विच्छुरितम् ||३३|| दिवि जातरूपगिरिगोत्रभृतां शिशुभूभृतामिव समुत्पतताम् । स गरुत्मतां सपदि पक्षततिं विचकर्त युक्तमयमिन्द्रसुतः ॥ ६४ ॥ प्रचरिष्णुपार्थशरपातभयात्रसतः क्षणेन वरुणस्य रणे । करलम्बिपाशमयमस्त्रमपि व्यधित क्रुधेव चरणस्खलनम् ॥ ६५ ॥ कुपितश्चकार कदनानि हरिर्वनवासिनामपि रथाङ्गरयात् । अतिजिह्वयातितरलीकृतया कवलीचकार किल ताननलः ॥ ६६ ॥ द्विषतो निपिष्य युधि चक्रमहो मुहुरारुरोह मुरवैरिकरम् । दिवि विम्बमम्बरमणेस्तिमिराण्यभिहत्य पूर्वगिरिशृङ्गमिव ॥ ६७ ॥ हरिचऋपार्थचरचक्रहतैर्वनवासिनस्त्रिदशतां गमिताः । नवरोचमानभुजशोर्य भरैर चलन्पुनर्युधि सुराः सह तैः ॥ ६८ ॥ नरसंगरेण दनुजान्मनुजानपि वीक्ष्य देवपदवीं गमितान् । सहजैरचालि किमु मुक्तिपदस्पृहयालुभिः समरसीनि सुरैः ॥ ६९ ॥ विललास चक्रधरचक्रमथ द्युपथे सहार्जुन सुवर्णशरैः । परितापितामरकुलं किरणाकुलमर्कविम्बमिदमन्यदिव ॥ ७० ॥
१. ‘अर्जुनशरैः परितः' क.
काव्यमाला ।