________________
१आदिपर्व-१२सर्गः] बालभारतम् ।
सपदि क्षिपन्ननुदिशं जलदाञ्जयसंपदा सह सहस्रशः । अदिदीपदर्दितवनं ज्वलनं नरतेजसा सममसौ पवनः ॥ ४५ ॥ निकृते विरोधिनि घने पवनैरुदितास्ततः शिखिशिखा मुदिताः । रुचिबन्धुमम्बुरुहबन्धुमपि द्रुतमस्पृशन्दिवि हसन्महसम् ॥ ४६ ॥ यदवारि वारिदततिर्वितता वियति स्वयं विजयिना जयिना । तदतिक्रुधा दिवि दधार पविं मघवाधिरुह्य विशदं रदिनम् ॥ ४७ ॥ अथ संभ्रमभ्रमितभीमपवौ पवनप्रपातकुपिते द्युपतौ । त्रिदशै शं निजनिजास्त्रततिः कलिता किरीटिकैलिकेलिकृते ॥ ४८ ॥ स्वजनप्रमाथभवदुःखदवाकुललोकनिःश्वसितधूमभरैः । ध्रुवमङ्गसङ्गिभिरतीव शितिं स दधार दण्डमिव दण्डधरः ॥ १९॥ परिपिण्ड्य दत्तमिव धूर्जटिना जगदन्तकारि दहनाक्षिमहः । द्विषदस्खलं स खलु रुद्रसखः समये हिरण्मयगदास्त्रमधात् ॥ ५० ॥ दजेनुन्द्रकीर्तितरला बलिनो न पदात्पदं ददति यद्भयतः । तमुरीचकार वरुणस्तरुणामणिद्युतिं सपदि पाशमपि ॥ ११ ॥ इति शस्त्रविस्तृतरसा सहसा सह वासवेन दिविषत्परिषत् । दववहिनिह्नवसमर्थरुचिः प्रचचाल पार्थसमरार्थमसौ ॥ ५२ ॥ अचलन्नितश्च गुरुगर्वभृतः क्षणमात्रवृष्टिकलितोच्छसिताः । युधि यक्षराक्षसखगेन्द्रफणिप्रमुखा रुषी विजयिने विपिनात् ॥ १३ ॥ युधि यक्षराजिरसिराजिकरा विकरालतां निदधती परितः।। स्फुटकोपताम्ररुचिरम्यचलद्दवहेतिपतिरिव धूमयुता ॥ १४ ॥ विविधास्त्रधारणकरालतराः कृतहुंकृतो विकृतभालभुवः । रसनाञ्चलज्वलदुरुज्ज्वलना रजनीचरा विदधुरुद्धरुताम् ॥ ५५ ॥ अतिचण्डतुण्डनखराः खगतैः पवनं छदैस्तमसृजन्गरुडाः । ननु सोऽपि दीपकलिकेव दवः शमनोन्मुखः सपदि येन कृतः ॥ १६ ॥ मणिपाणिजज्वलदनेकफणाङ्गुलिशालिनस्तरलतां दधतः । परितः प्रसस्त्रसितद्युतयो युधि मृत्युराज भुजवद्भुजगाः ॥ १७ ॥ १. ऐरावतम्. २. कलि: कलहः. युद्धमिति यावत् .