________________
१२४
काव्यमाला ।
अभवत्तदा स कुरुवर्षचरः किल तक्षकोऽत्र विपिने ज्वलति । प्रविवेश मातृजठरं भयतः पुनरश्वसेन इति तत्तनयः ॥ ३३ ॥ सुतरक्षणाय फणिराजवधूतमुत्पपात दिवि दीप्तदवात् । गिलनावशिष्टफणिपुच्छयुतं विजयी चकर्त च तदीयशिरः ॥ ३४ ॥ अथ तक्षकप्रणयतः पवनैः परिमोह्य पाण्डुपृथिवीशसुतम् । अपमौलिपन्नगवधूजठरादहरत्तदा हरिरहीन्द्रसुतम् || ३९ ॥ इति वञ्चनेन कुपितः फणिनीं विशिखैस्त्रिधा दिवि चकर्त नरः । दहनो हरिः स च तदाप्यशपद्भव निष्प्रतिष्ठ इति सर्पसुतम् ॥ ३६ ॥ स्वयमश्वसेनर्हृतिवञ्चनया कुपितः कृतान्त इव पाण्डुसुतः । अतिभीषणैर्विशिखदण्डुगणैर्गगनं प्यधाद्विधुरयन्मेरुतः ॥ ३७ ॥ अथ तं प्रति द्युपतिरुग्ररुषारुणदृष्टिराजिं निजमङ्गमधात् । गगनान्तरालविकरालदवज्वलनस्फुलिङ्गभरभिन्नमिव ॥ ३८ ॥ जलदास्त्रमास्तृतवियद्वलयाम्बुदराजिराजितममोचि ततः । हरिणा रयेण हरिणाधिपतिप्रतिमल्लपौरुषकिरीटिरुषा ॥ ३९ ॥ त्रुटदुत्कटोत्कटतडित्पटलैर्दृढ गर्जितैर्जितदिगन्तगजैः । जलदैस्तदैव परितः स्फुरितैः क्षयकालभीषणमकारि नभः ॥ ४० ॥ घनपद्धतिः पिहिततिग्मरुचिस्तिमिराणि तानि विततान तदा । विरराज येषु शिखिकीट इव द्युतिदीपितत्रिभुवनोऽपि दवः ॥ ४१ ॥ अपतन्घनाघनर्धेनाम्बुभरैर्गलहस्तिता इव शिखाः शिखिनः । स दधौ छमिच्छमितशब्दमिषादथ दुःखनिःश्वसितमल्परुचिः ॥ ४२ ॥ स्वमथ प्रतापमिव मूर्तमयं परिभूयमानमवलोक्य दवम् । पवनास्त्रमस्त्रकुशलो मुसलध्वजधैर्यधाम विजयी व्यसृजत् ॥ ४३ ॥ अहह व्यरोधि युधि मत्तनुजानुज एष पाण्डुतनुभूरमुना । इति कोपितेन पवनेन किल द्युपतेरलोडि गृहमद्रिपतिः ॥ ४४ ॥
१. ‘–हृतकण्ठतया’ ग. २. देवान् ३. धारणक्रियाविशेषणम्. ४. घनः सान्द्रः ५. बलभद्रः.