________________
११८
१. सूर्यः.
काव्यमाला ।
सपदि विपदपास्त्यै मूर्तिमत्पाकपिङ्ग सुकृतफलमिवास्या हस्तवर्ति व्यधत्त ॥ ४४ ॥ भुवि गतमतिदूरं दीर्घकाण्डाग्रचक्राकृति विततदलालि क्ष्मारुहच्छायवृन्दम् । अवहत नवशूर व्याहतध्वान्तसेना
ततिपतितसदण्डच्छत्रखण्डानुकारम् ॥ ४९ ॥
अपि गृहकुहरेषु ध्वान्तजालानि जालान्तरसद्गतीनां चाकचक्यै रुचीनाम् । प्रसृमरहरिणाक्षीरत्नताटङ्कचक्रप्रतिफलैनविचित्रैश्चित्रभानुर्जघान ॥ ४६ ॥
गहनतरुवनस्थं तामसं त्रासकम्पा
कुलमिव चलपत्रच्छायपूरच्छलेन ।
घुमणिरनणुशाखामध्यलब्धावकाशै
दिशिर्दिशि करदण्डैः खण्डयामास चण्डैः ॥ ४७ ॥
लघुतरबिलगर्भोदग्रदुर्गान्तरेषु
स्थितमपभयगवड्रीवमप्यन्धकारम् ।
दिवसविवशनश्यत्पन्नगश्रेणिचूडा
मणिकिरणविकासैस्त्रासयामास भावान् ॥ ४८ ॥
दिवसमुख विशेषध्यानसंलीनयोगी
श्वरविसरशिरोऽधःस्कन्धभाबन्धदम्भात् ।
अपि गुरुषु गिरीणां कंदरासु प्रविश्य स्वयमुपचयधीरं ध्वान्तमध्वंसतार्कः ॥ ४९ ॥
रविरविरलसर्पत्सर्पशारीररोचिः
-
कवचितमपि नीचैर्विश्वशश्वन्निवासम् ।