SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-११सर्गः] बालभारतम् । त्रिभुवनभवनान्तर्दपतीनां तदात्त्व ज्वलितविरहकीलाजिह्वकीलाभिलीलाम् ॥ ३८ ॥ परिवृढपरिरब्धप्रेयसीतारहारा वलिविगलितमुक्ताचक्रवालच्छलेन । तरणिरथरथाङ्गलोदभीत्येव तारा गुरुगृहशिखराणि स्पष्टमभ्येतवत्यः ॥ ३९ ॥ व्रतमतनुत मुक्ताहारवृत्तिश्चकोरः कुमुदसमुदयेन ध्यानमध्यायि किंचित् । भृशमसृजदुलूकः कुञ्जवासं तपस्वी पुनरुदयविभूत्यै यामिनीकर्तुरिन्दोः ॥ ४० ॥ दिनमणिमणिराजीधूतधूमध्वजोग्रा दुदयगिरिशिरोग्रान्नूनमुड्डीय तप्तः । त्वरितमधिरुरोह व्योमवृक्षस्य शाखा__ शिखरमिव पतङ्गः प्राग्दिशो मौलिदेशम् ॥ ४१ ॥ द्विजपतिहुतमग्निर्नव्यमादत्त हव्यं __ खलु मुखमखिलानां नाकिनां लोलजिह्वः । इति पतिरयमह्नां नूनमहाय शक्रा__ दिकसुरमयमूर्तिस्तेजसां स्फूर्तिमाप ॥ ४॥ पतितवति विपाण्डौ पक्वपत्रानुकारे तुहिनमहसि जातः पल्लवोऽयं नवीनः । दिवसविभुनिभेन व्योमवृक्षस्य विश्व त्रयसुकृतसुधाभिर्लब्धसेकस्य शङ्के ॥ ४३ ॥ यदकृत जनतासौ भक्तिभारं तदप्य अलिजलनिजबिम्बच्छद्मना पद्मबन्धुः । १. 'कीलाजिह्वोऽत्राग्निः' इति ग-पुस्तकस्था टिप्पणी. २. धूमध्वजो वह्निः, ३. सूर्यच्छलेन.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy