________________
१आदिपर्व-११सर्गः] बालभारतम्
११९ अवतमसकुटुम्ब स्फाटिकाद्रिस्फुटत्व
स्फुटितकरकलापैः प्रापयामास नाशम् ॥ ५० ॥ निचिततरतरङ्गच्छद्मकाश्मीरनीर
च्छुरणगुणपिशङ्गाभोगमङ्गं वहन्त्याः । तदनु कमलिनीनां कामुकः काञ्चनीयं तिलकमिव विरेजे व्योमलक्ष्मीमृगाक्ष्याः ॥ ५१ ॥ प्रत्यूषयामखुरलीक्षणनर्तितास्त्री
ब्राह्म मुहूर्तमनु सेवितवामदेवौ । अर्कोदये व्यतनुतामथ दानकेलिं
कृष्णौ कलिन्दतनयासविधे निखिन्नौ ॥ १२ ॥ रङ्गत्पतङ्गप्रतिमोऽतिमात्रगात्रस्थितिर्मेचकचीरधारी । विशालचक्षुश्चतुरस्रमूर्तिरहिवर्चा मधुपिङ्गकूर्चः ॥ ५३ ॥ पुरस्तयोरस्तसमस्तशत्रुविस्तारयोस्तारमतिर्जटावान् । द्विजाग्रणीर्जाग्रदुदग्रबाहुः कश्चित्ततश्चित्तहरोऽभ्युपेतः ॥ १४ ॥
(युग्मम्) किमेष मेरुर्घनमेखलावान्बिभ्रत्किमर्को यमुनां तनूजाम् । धृतोरुधूमोऽथ शिखीति ताभ्यां कृष्णांशुकोऽशङ्किसपिङ्गकान्तिः।।५५॥ प्रमोदमन्दात्मकथावथैतौ दैत्यारिपार्थौ रभसात्कृतार्थौ ।। समुत्थितौ तस्य पदाजयुग्मे भृङ्गोपमावस्पृशतां नतास्यौ ॥ ५६ ॥ मुदा समुत्थाय करेण रेणुभ्राजिष्णुभालौ सुभटौ द्विजस्तौ। जगाद दन्तांशुभिरंशुकाग्रलँग्नैस्त्रिमार्गायमुनाप्रयोगः ॥ १७ ॥ पुरा पुरारिप्रतिमप्रतापः क्षोणीपतिः श्वेतकिसंज्ञयाभूत् । सदा कृतैस्तत्क्रतुचक्रवालैनिर्वेदमापुः किल वेदभाजः ॥ १८ ॥ तपांसि तीव्राणि तदेष तन्वन्प्रीतेन गौरीपतिनोपदिष्टः । अतोषयहादश हायनानि धाराभिराज्यस्य नृपः स वह्निम् ॥ ५९॥ १. खुरली अभ्यासः. २. वामदेवः शिवः. ३. कृष्णपार्थों. ४. '-अन्तर्गतैः' ख, 'लमास्त्रमार्गः' ग.
-