SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०० काव्यमाला । कल्पितो गगनचर्मणि स्वयं पेषयन्त्रवदयं मनोभुवा । किं दलीकृतवियोगिलोक हृत्की कशाभतटतारकः शशी ॥ ६१ ॥ उच्छलन्ति वियदर्णवे नवाश्चन्द्रिकामयचलज्जलोर्मयः । इत्यवैमि मकरो विशृङ्खलं खेलतीह मकरध्वजध्वजः ॥ ६२ ॥ नागलोकतिमिरच्छिदोत्सुकैर्द्रागहंप्रथमिकाविकासिभिः । आविशद्भिरिव सोमरश्मिभिः क्षोभितः पतिरपामपि क्षणात् ॥ ६३ ॥ प्रेमसीधुरसनोपदंशकं यच्छतो बत चकोर दंपती । सोमकोमलकराङ्करं मिथश्चारुचपुटकोटिमोटितम् ॥ ६४ ॥ चन्द्रिका भिसृतकार्मिनीतनुच्छायमण्डलकमेव सेवकम् । दृश्यतेऽस्ततिमिरा क्रोधनस्त्रीकुलं भुवि शुचेव निर्लुठत् ॥ ६५ ॥ किं न सैष समयः सुधामयश्छाययापि बत यत्र पुष्पितम् । भूरुहां चलदलान्तरस्फुरच्चन्द्रिकानिचितचन्द्रकच्छलात् ॥ ६६ ॥ चन्द्रचक्रधृतिदुर्धरोऽधुना चित्तभूरधित चक्रवर्तिताम् । तेन दूरितमदं तदाज्ञया वर्तते जगदशेषमप्यदः ॥ ६७ ॥ कामुकागमसमुत्सुका मुहुः कामबाणगणशाणतां गतैः । सुभ्रुवस्तनुमयूखभूषणैर्भूषयन्त्यहह भूषणान्यपि ॥ ६८ ॥ पुष्पशेखरविशेषसौरभभ्रान्तषट्पदपदेन सुभ्रुवम् । उच्छलन्ति खलु तत्क्षणाङ्गुलीमार्जितोरुकबरीमरीचयः ॥ ६९ ॥ सुभ्रुवो विशदचित्रकादिकं यद्यदेव विदधुः प्रसाधनम् । तत्तदाननतुषार दीधितेश्छिन्नतामगमदिद्धदीधितेः ॥ ७० ॥ सुभ्रुवां रतिरतीशयोः कृतावासयोरिव विलोचनद्वये । कापि कज्जललिपिर्जगज्जितोश्चापयुग्मरुचिरा व्यराजत ॥ ७१ ॥ दृक्प्रभाकुसुमिताः कपोलयोर्यल्लसन्ति नवपत्रवल्लयः । तन्मधुर्मधुसखस्य योगतोऽलंचकार नियतं नितम्बिनीः ॥ ७२ ॥ पारिपार्श्विकयुगायितस्फुरन्मौक्तिकस्तबकितोरुमण्डलः । कामकेलिरसनाटिकानटः कामिनीवदनचन्द्रमा बभौ ॥ ७३ ॥ १. 'पारिपार्श्वकः' ख-ग. पार्श्वे इति परिपार्श्वम् । विभक्त्यर्थेऽव्ययीभावः । परिपार्श्व वर्तते इति पारिपार्श्विकः । 'परिमुखं च' इति चकाराट्ठक्.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy