SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-९सर्गः] बालभारतम् । तन्मधूमिरसनं सुधारसे तच्च चन्द्रमसि चन्दनार्चनम् । पावकद्रवनवप्रसाधनं योषितो यदधरे वितेनिरे ॥ ७४ ॥ पाञ्चजन्यविषयेऽपि योषितां तारहारविमलाक्षमालया। कण्ठिकातरलकण्टुलारवैीवया क इव जप्यते जपः ॥ ७९ ॥ कामयौवनवनेभखेलनस्तम्बयोर्मुगदृशामुरोजयोः । एणनाभिमयपत्रवल्लयो रेजिरे मदजलावलेपवत् ॥ ७६ ॥ शक्रकार्मुकसहस्रमावहन्नङ्गदद्युतिभरैर्यदङ्गनाः । तत्सहस्रमितवेध्यवेधने चित्तभूधूवमभूत्सहस्रदृक् ॥ ७७ ॥ जित्वरं युवतिपाणितां गतं तोयवासतपसेव तोयजम् । शौक्तिकेयवलयावलिच्छलात्सेव्यते शशिकलाभिरप्यदः ॥ ७८ ॥ अङ्गुलीषु नवरत्नमुद्रिकाभूषणानि पुनरुक्तभूषणम् । भूषिता मुकुरजप्रभाकुरैश्चक्रिरे रसवशान्मृगीदृशः ॥ ७९ ॥ धार्यतामिह दृढं त्वया त्वया वध्यतामिति कृतारवैर्मिथः । मेखला खलु नितम्बमण्डले बध्यते मृगदृशः सखीजनैः ॥ ८० ॥ स्मेरमथुरसमानहंसकं पादपङ्कजयुगं मृगीदृशाम् । यत्तदाननमहोमेहोर्मिभिनिर्मदः कमलमर्दनोऽननि ॥ ८१ ।। योषितां रमणरागजागरैः सांध्यरागरुचयो विनिर्जिताः। अजसौहृदरिपूनपि क्रमात्तत्क्षणं जतुमिषात्सिषेविरे ॥ ४२ ॥ कौमुदीविशदयोः सदच्छतादृश्यमानविशदाङ्गशोभयोः। चारुचन्दनविलेपचीरयोर्लभ्यतेऽपि न भिदा नतभ्रुवा ॥ ८३ ॥ इत्यवाप्तनवभूषणाः क्षणं वीक्ष्य रत्नमुकुरेऽङ्गमङ्गनाः । भासमानरसभावभङ्गयो जज्ञिरे दयितदर्शनोत्सुकाः ॥ ८४ ॥ तद्रसप्रसरसारसारणीभूतभूतलसुरेश केशव । आवयोरपि वयो नवं प्रियादर्शने सफलतां विगाहताम् ॥ ८५ ॥ इत्यनङ्गलसदङ्गनारसस्मेरमानसविलासयोस्तयोः । केषु मानमथनेच्छया मिथोऽदीपि दंपतिषु नेक्षणस्पृहा ॥ ८६ ॥ १. 'कुण्डला-' ग. २. 'महोत्सव' क. ३. सारणी स्वल्पसरित्.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy