SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-९सर्गः] बालभारतम् । दीधितिस्तुहिनदीधितेरसौ भाति जर्जस्तमिस्रमिश्रिता । कल्पितो नु दिनशिल्पिने ककुब्यौवतेन सतिलो जलाञ्जलिः ॥१९॥ प्राघुणस्य समुपेयुषः करक्रीडया कुमुदिनीहृदीशितुः । निर्ममे तिमिरसर्पमारणं हा स्वभावमलिनो मरुत्पथः ॥ ५० ॥ श्याममन्तरलसज्जगत्रयं स्फीतशीतरुचिमण्डलं नमः । आससाद मुरवैरिणोंऽशुमन्नेत्रपूजितहरस्य तुल्यताम् ॥ ११ ॥ सर्वदिग्जुषि तमश्चये रुषा ताम्रमाननमिवादधौ विधुम् । निर्गतेऽत्र चकिते तमस्विनी पाण्डुरं विरहलीलयावहत् ॥ १२ ॥ लक्ष्यलक्ष्महरितालकाङ्कुरादालवालवलयादिवेन्दुतः । उद्यता मदनकीर्तिवल्लिवत्कौमुदीयमुडुपूरपुष्पिता ॥ १३ ॥ ओषधीमिषसमज्वलन्महाशोकवह्नय इवान्तरद्रयः । आगते शशिनि मित्रदुःखतश्चन्द्रकान्तसलिलै रुदन्त्यमी ॥ १४ ॥ सौधमौलिमहिलाक्षिकैरवस्तोमकृप्तरुचिदण्डपद्यया । पश्य कैरवसुहृन्नभःशिखां मन्दमन्दमयमेति चन्द्रमाः ॥ ५५ ॥ क्षीरनीरनिधिनीरदः शशी स्फारतारककदम्बबुङ्दम् । भूरिवृष्टिभरचुम्बिताम्बरं कौमुदीमयमदीपयत्पयः ॥ १६॥ रक्ष रक्ष वशवल्लभे भवद्वल्लभस्तुदति कैरवाक्षि माम् ।। ध्वान्तमित्यलिकुलच्छलादलं क्रन्दतीव परितः कुमुद्वतीम्॥ ५७ ॥ पीततामसमधुः सुधारुचेरेष मत्त इव कान्तिसंचयः । उत्पतन्नभसि भूतले पतन्नाशु हासयति दिग्विलासिनीः ॥ १८ ॥ ओषधीपतिरयं तमोमयं लोहपिण्डमिव विष्टपत्रयम् । किंचिदौषधमिवाङ्कमावहत्कि न रौप्यमयमेव निर्ममे ॥ ५९॥ शीतरश्मितमसोरिदं यशोदुर्यशोभिरभितोऽपि भूतलम् । कौमुदीचयपदार्थकॉयिकच्छायमण्डलमिषैर्विचित्रितम् ॥ ६० ॥ १. अतिथेः. २. विष्णुः सूर्यरूपेण दक्षिणनयनेन शिवं पूजितवानिति पौराणिकी कथामनुसृत्येयं कल्पना. ३. 'पूर्व' क. ४. 'कायक' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy