SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-सर्गः] बालभारतम् । दधौ प्रियक्षिप्तनलोक्षिता मुहुर्दगन्जमुच्चैरसितं च कापि यत् । विलस्य कोपेन तदा तदीयया स्वयं सपत्नी विदधौ तदैव तत् ॥ १९ ॥ कदाप्यसंभावितविभ्रमेऽम्भसा प्रियेऽभिषिञ्चत्यपि नामभेदतः । संवृत्तरागा सहसा प्रवृत्तितो मुदं दधौ काप्यपरा चुकोप च ॥ ६०॥ दृङमार्गमागत्य विवृद्धमत्सरा मिथः सपत्न्यो बहुशः स्मृतागसः। स्वस्वाधैकं सलिलाहतैः समं व्यधुर्विलासिस्पृहणीयमाकुलम् ॥ ६१ ॥ चिराय पर्याकुलया जलोक्षणैः क्षणात्कृतं साचि कयाचिदाननम् । नाबोधि सिञ्चन्सममोहितो युवा पश्यन्पुरः कर्णवतंसवारिजम् ॥ ६२॥ . सरोरुहिण्यन्तरिता मुहुर्मुहुः सिञ्चन्तमजं स्मितमाननभ्रमात् । . कुतूहलोत्तालमना मनःप्रियं पयःप्रवाहैर्विधुरं वधूय॑धात् ॥ ६३ ॥ प्रियोरसि प्रेमतरुं सखीरिता मुग्धा नवोप्तं चुलुकाम्भसासिचत् । नेत्राञ्जलिम्यां हृदि शोकमत्सरद्रुमौ परा तत्क्षणरोपितौ पुनः॥ ६४ ॥ तदाङ्गनानामिव लोजनाञ्जनैस्तथाजनि श्यामजला कलिन्दभूः। यथा तदाश्लेषवशादिवाभजन्निनं तद॑णः शितिवर्णमर्णवः ॥ ६५ ॥ ससंभ्रमाश्लेषलगद्विलेपनं कुचाग्रमारुह्य रसान्मृगीदृशाम् । सद्यः प्रलीनोऽपि पुनर्नवोऽभवन्मुहुस्तरङ्गस्तरलैर्वनानिलैः ॥ ६६ ॥ सरागदृग्भिस्तरुणीभिरापतन्निहन्यमानोऽपि मुहुश्चपेटया । उत्फेनभासा प्रनहास चञ्चलः शठोऽपराधीव तरङ्गसंचयः ॥ ६७ ॥ विमर्दिताम्भोरुहकेसराङ्कुरैः परिस्फुरत्फेनलवालिमारुतैः। विलासिनीनव्यविलासतो बभौ सस्वेदरोमाञ्च इवोर्मिसंचयः ॥ ६८ ॥ मदङ्कमुन्मुच्य बहूकृताकृतिविधुर्दधौ क्रोडगताः कुमुद्वतीः । इतीव सिन्धूत्थितपातिशीकरैयॊः कैरवाक्षी मुखवीक्षयारुदत् ॥६९॥ रोमाञ्चदण्डान्तरगैर्मगीदृशां नखक्षतैः स्नानपरिस्फुटीकृतैः । तीव्रार्धचन्द्रायुधमञ्जुलैर्जगज्जयाय दर्प विततान दैर्पकः ॥ ७० ॥ विस्रस्तधम्मिल्ललगत्प्रसूनकप्रभ्रष्टमालामिषतो मृगीदृशाम् । विमुच्य कामः शरचापसंमदं मदेन तासां ललितान्यशिश्रियत् ॥७१ ॥ १. जलम्. २. 'मृगीदृशः' क. ३. कामः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy