________________
१ आदिपर्व - ८ सर्गः ]
बालभारतम् ।
उरःस्फुरन्माल्यभृतः सुमावलीपरीतधम्मिल्लपरार्घ्यपृष्ठकाः । सचापतॄणा इव पुष्पधन्वनश्चमूचरा दंपतयो विरेजिरे ॥ ३३ ॥ वधूवराणां वपुषि प्रसूनजैर्वृते रजोभिः श्रमवारिपङ्किले । हतद्विषन्मानमहाबलो बली मुदं दधौ मन्मथमत्तसूकरः ॥ ३४ ॥ प्रसूनरेणुप्रकरा वनान्तरे मृदुस्फुरद्वायुविवर्तनर्तिताः । वधूजनस्पर्शकृतोत्सवा बर्दिवाकरस्येव करा विकम्पिनः ॥ ३५ ॥ प्रियेण वध्वाः श्रमचर्मभेदिभिः पटान्तवातैः प्रेमदाश्रुशीतलैः । वृथा कृतस्नेहभरस्थितिर्दुतं हतः सपत्न्यामभिमानदीपकः ॥ ३६ ॥ मरुत्कृते चालयितुं पटान्तरं स्वयं भुजंगे प्रणयादनीश्वरे । अघानि कस्याश्चन धर्मजं पयस्तदा सपत्नीश्वसितैः खरैरपि ॥ ३७ ॥ सरोजबन्धुर्नलिनद्विषन्मुखानतापयद्युक्तमहो वधूवरान् ।
इमेऽपि युक्तं तपनात्मजां तदा बभूवुरालोडयितुं समुत्सुकाः ॥ ३८ ॥ वनान्तराद्दंपतयो विभूषणप्रसूनमालामिलितालिमण्डलाः । तीत्रांशुतप्ताः पयसेऽचलल्लताजुषो गता जङ्गमता इव द्रुमाः ॥ ३९ ॥ प्रसून सर्वस्वमुदारविग्रहे स्वयं गृहीत्वा चलिते वधूजने । चेलुश्छलायेव सहैव शाखिनः शिखिच्छदच्छत्र कदम्बदम्भतः ॥ ४० ॥ रखौ प्रतीचीजुषि कोऽपि धारयञ्ठः पटीं मूर्धनि मुसुभ्रुवः । छन्दानुवृत्त्या जलधेरिवासितच्छविं युवानो यमुना मलोकयन् ॥ ४१ ॥ अथो रथाङ्गैश्चलचन्द्रघाटिकाभयायभात्यन्त मुखानि योषिताम् । मरालबालैः सुविहारवारिजत्रजप्रमोदाद्यमुनाजलस्थितैः ॥ ४२ ॥ समापतत्तुङ्गतरङ्गसंगताद्भुतप्रतिच्छन्दमिषेण योषिताम् । कृतस्थितीनां तटिनीतटे रयादभ्युत्थितं चक्रुरिवाम्बुदेवताः ॥ ४३ ॥ अमुत्र मा भैष्ट पुरोऽपि सुभ्रुवः सृजन्ति केलि लहरीषु पश्यत । इति प्रतार्य प्रतिबिम्बदर्शनादवीविशत्कामिजनोऽङ्गना जलम् ॥ ४४ ॥ पयांसि नाभिद्वयसान्यपि द्रुतं जनातिरेके ययुरंसन्नताम् । हियेव मग्ने निजपङ्कजत्रजे मुखानि राजीवयितुं मृगीदृशाम् ॥ ४५ ॥ १. आनन्दाश्रुशिशिरैः, २. 'चललताजुषः ' ग. ३. नाभिप्रमाणानि प्रमाणे द्वयसच्.
१