SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-७सर्गः] -बालभारतम् । सोऽपि व्यलोपि शिशिरेण तदा विलोल दोलाविलाससुलभेन समीरणेन ॥ ७९ ॥ दोलागतागतविनोदरसेन गीतं प्रापञ्चयन्त सुदृशः श्रितपञ्चमं यत् । तस्य प्रतिध्वनिरिवोपवनाश्रयाणा मश्रावि कुण्ठकुहरेषु कुहूकरीणाम् ॥ ७६ ॥ साध्यं न मन्मथशरैरपि यत्तदेव मात्सर्यमाशु गलहस्तयितुं प्रियाणाम् । रेखामिषाद्विनमनोन्नमनेन रत्न प्रेङ्खोलनैर्विदधिरे ध्रुवमर्धचन्द्राः ॥ ७७ ॥ दोलाविलासकुतुकोद्धरकृष्णपार्थ वीरावलीसरलपादहतं तदैव । स्पष्टान्तरान्तरपरिस्फुरिताम्बुवाह मद्यापि जर्जरमिवाम्बरवर्त्म भाति ॥ ७८ ॥ दोलाचलघुवमिषेण सहस्रमूर्ती- . भूय स्वयं स्मर इव स्मृतपूर्ववैरः । व्यालोलहारमिषकौसुमचापधारी धाटीकृते पुररिपोर्दिवि धावति स्म ॥ ७९ ॥ सद्यः स्फुरत्तरलकातरदृग्विलोक स्वेदप्रकम्पपुलकोद्गमविभ्रमाणाम् । पार्थोपवेशललिते दयिते वधूनां दोलाधिरोहभयमेव मिषं बभूव ॥ ८० ॥ स्वेदोद्गमव्यतिकर श्लथितानि यष्टि मुष्टिग्रहे करतलानि वधूसखानाम् । दोलागतागतधुतद्रुममौलिपुष्प श्रेणीपरागपतनेन दृढत्वमापुः ॥ ८१ ॥ १. कोकिलानाम्.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy