SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । प्रेङ्खोलनान्यतुलखेलनधूतशाखि_ पुष्पच्युतैर्मधुरसैः स्तिमितानि बाढम् । साक्षादशक्यललितानि विमुच्य चक्रु श्वेतः क्रुधेव कुसुमावचये युवानः ॥ ८२ ॥ प्रागुत्तीर्णप्रियतमभुजाडम्बरालम्बलोला दोलासौख्यं क्षणमकलयन्नुत्तरन्त्योऽपि नार्यः । सद्योऽभ्यासप्रबलमबलाचक्रवाले समन्ता__दप्युत्तीर्णे न चिरममुचल्लौलभावं च दोलाः ॥ ८३ ॥ वीराः पार्थमुकुन्दयोरथ वनोत्सङ्गे कुरङ्गीदृशां विव्वोकैट्टियमाणमानमनसो मन्दं विलेसुर्मुदा । एभिर्विग्रहरूपविग्रहधरैः सार्धं वितन्वन्निव स्पर्धामत्र मनोभवोऽपि ललितं चक्रे रतिक्रीडनैः ॥ ८४ ॥ इति श्रीमजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये आदिपर्वणि वसन्तवर्णनो नाम सप्तमः सर्गः । अष्टमः सर्गः। अहो महत्त्वं वचसामगोचरं प्रपञ्चयन्कृष्णमुनिः पुनातु वः । भवार्णवोऽप्येष विशोषमेति यत्पदद्वयीरेणुकणैरपि क्षणात् ॥ १ ॥ रथाङ्गिपार्थानुचरैरथ द्रुमा नवप्रवालप्रसवग्रहाशयैः । भूरीभवत्पल्लवपुष्पवैभवा इति व्यचीयन्त कराङ्गुलीनखैः ॥ २ ॥ लतासु लातुं लसिते मृगीदृशां घनध्वनत्कङ्कणसंकरे करे । द्रुतोत्पतिष्णुभ्रमरीभरैर्मयादिव प्रसूनैरुदनामि दूरतः ॥ ३ ॥ विलूयमानानि मुकुन्दकामिनीजनेन लीलाविपिनान्तवल्लिषु । पुष्पाणि तत्पाणिजपाटलप्रभाटोपानि कोपादिव शोणतां ययुः ॥ ४ ॥ निजप्रियाणामिव वश्यताकृते परस्परं दंपतिभिः ससंमदैः । जवादवाचायिषत स्वपाणिभिः पुष्पाणि बाणार्थमनङ्गधन्विनः ॥ ५ ॥ बहून्नमन्त्यः कुसुमेच्छया मुहुर्मुहुर्नमन्त्यश्च नितम्बभारतः । स्त्रियः प्रियाण्यूर्ध्वरतानि रागिभिः स्मरस्मयस्मेररसैरसस्मरन् ॥ ६ ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy