________________
१आदिपर्व-७सर्गः] बालभारतम् ।
दोलासु कौतुकवनीपृथुकर्णपाश___ लोलासु कुण्डलितुमीषुरुदारभासः ॥ ६२ ॥ भर्ताधिरोपयति यावदुदञ्च्य दोा ___ तावद्वधूरधिरुरोह रयेण दोलाम् । अभ्यस्तनित्यपुरुषायितलाघवानि
श्रोणिस्तनोन्नतिनताप्यभिदर्शयन्ती ॥ १३ ॥ प्रेढोलने परिवृढेन कुतूहलेन
काप्यध्यरोषि रमणी समुदस्य दोाम् । दूरास्त्रपातबलसंभ्रमभाजि यन्त्रे
शस्त्रं जगत्रयजितेव मनोभवेन ॥ ६४ ॥ दोलाधिरोहपरयापरया प्रियस्य __ पृष्ठे न्यधीयत पदं यदलक्तकाङ्कम् । पञ्चाङ्गुलीपरिचितेन स तेन पृष्ठ
रङ्गन्निषङ्ग इव पञ्चशरो विरेजे ॥ १५ ॥ दोलाधिरोपकृतये रभसादुदस्य
न्कोऽपि प्रियां कृशतरो दरबद्धमुष्टिः । त्रासातुरं स्मरजितापि मृणालधन्वा
नन्वात्तवज्रजयशक्तिरिवाशशङ्के ॥ ६६ ॥ दोलास्पृशां मृगदृशां वदनानि रेजु
दण्डावलम्बनतबाहुयुगान्तराले । सद्यो मृणालजनितेषु शरासनेषु
बाणीकृतानि नलिनानि मनोभुवेव ॥ ६७ ॥ किंचिन्नतस्फुरितपृष्ठतताग्रपादं ___ लोलालकं रणितपुरकङ्कणादि । नृत्यन्नितम्बमुपविष्टरतानि दोला
लीलायितं स्मरयति स्म नितम्बिनीनाम् ॥ ६८ ॥ १. 'चाङ्ग' ग. २. 'कङ्कणनपुराणि' क.