________________
सोडलविरचिता त्रुट्यत्पिङ्गस्फुलिङ्गोड्डमरपरिकरणामुनैवाग्निना ते । पकं निर्वाप्य देहामिषमसिलतिकालूनमापीनखण्ड
तुण्डे कालस्य भास्वत्कुहरिणि शिशिरग्रासगृह्यं क्षिपामि ॥ अथवा
वस्तवास्य मम भीमभुजप्रताप
वज्रानलेन पिहितस्य कुतोऽवकाशः । उक्तं कुरु व्रज गृहं मिल बान्धवेषु
बुध्यस्व रे विसृज किं रणडम्बरेण ॥ अथेत्थमपि नास्माकमुक्तं करोषि तदिदमनुभूयतामसमसाध्यावगुण्ठितस्य फलमात्मनः स्वभावस्येति गर्वगरिमोगरगर्भया गिरा तं कैकसेयमास्कन्द्य ननु शीतलेन तीव्रः प्रशाम्यत्यम्भसा निर्वाप्यते वहिरतोऽग्निमादौ नियम्य पश्चादमु खड्ड्रेन राक्षसापशदमपहस्तयामि, तत्खलु विना पानीयमार्द्रतरुपल्लवेनापि प्रहतोऽयमग्निः प्रलीयते तत्तथा करोमीति निश्चित्य वामेन धृत्वा कृपाणमितरेण च पाणिना नेदीयसो विनम्रशाखस्य शाखिनः पृथुदलातिमांसलं पल्लवमादाय रे रे हिंस्राधम ध्रियतां ध्रियतामेष विधाप्यसे पल्लवाहतिभिरित्यमन्दमाभाषमाणः प्रगुणिताघातवल्गुना संस्थानेन स्थिरीभूय धावितवान् ।
अनन्तरमगेन्द्रकुलपक्षतिप्रलयभीषणारम्भदम्भोलिदहनदुर्वारडम्बरमासूत्रितं रक्षसाऽऽशुशुक्षणिप्रकरमकिञ्चिदिव नियमयितुमस्त्रीकृतेन विटपिनः प्रवालेन हेलोपक्रमं पराक्रममुदीक्ष्य मानवेन्द्रस्य, सहसैव परमहो मनसि नियाजं वीर्यम्, अहो भुजशौर्यम् , अहो वचस्यकृत्रिमालापपरिकरप्रौढिः, अहो समित्याभिमुख्यम् अहो प्रहारकर्मण्युचितास्त्रव्यापारनैपुण्यम्, अहो प्रबलेऽपि वैरिण्येवमवज्ञाविस्फूर्जितं भूभत्तुरस्येत्यद्भुतरसावेशाद्विधूतमस्तकेषु रणप्रेक्षाकुतूहलिषु देवेष्वेकादशानामपि रुद्राणां जटाजूटतस्त्रुटितजाह्नवीप्रवाहजन्मा युगपदम्बरतलात्पपात परितः प्रकीर्णविकटच्छटाकटकसम्पातदुर्द्धरो वारिसन्दोहः । तेन रुदैकादशिकोत्तमाङ्गगङ्गाम्भसां भरेण झगित्येव सा तस्य तावतोऽनुबन्धादसाध्याऽपि विध्वस्ता शवाशिनो वैश्वानरी सृष्टिः । विश्वस्तवह्निशिखा - तश्चासौ तथैव त्वरया विशेषभीषणाकारमेकं शिरसि शिखादण्डमिव मृत्योः, द्वितीयं कुलिशमिव सुरेन्द्रस्य, तृतीयं शृङ्गमिव कालमहिषस्य, चतुर्थं कोणमिव त्रिशूलस्य, पञ्चमं विषाणमिवाभ्रकुञ्जरस्य, वार्द्धकावगलितं चण्डिकादन्तमिवास्त्रतामापन्नं, दनुजदारुणाघातविघटितं नृसिंहनखरमिव मुष्टौ निवेशितं,