________________
८१
उदयसुन्दरीकथा। मित्यसावसमानपौरुषः पिशिताशिष्वेवमकृतसमरसमाप्तिरन्तराल एव गतवान्, किं सगरे नरेणाधरीभूतस्त्रपया तिरोभूतवान्, उतापरोपायकामस्वधामन्यगात्, अथच्छलेन मां वञ्चयितुं प्राविशन्नभसि, यदि वा ममाशयपरीक्षार्थमेवं स्थितवान् , उतस्विदियमीदग्विधैव प्रक्रिया रक्षसां रणेषु, किं पुनः रनेनैव पथा पलायितवान्, आहोस्विदसावेवं समरोपसंहृतिक्रमः, तत्किमे. नामग्रे विधाय तपस्विनी यामि, प्रतिपालयामि वा मुहूर्तम् , अथवा छिद्रप्रहारिणी हि रक्षसां जातिः, अतः कियत्क्षणमुदीक्ष्यत एव पन्थाः पापस्य तस्येति विकल्पमातन्वति वसुन्धरास्वामिनि, अकस्मात्तस्मादगाधरन्ध्रोदरादन्धकूपतः पातालजान्हवीप्रवाहपटुरवोद्गार इवोजगाम हुङ्कारजन्मा महाध्वनिः । ततस्तस्यानुपथानुबन्धिना धूमपटलेन वर्षन्नतिचपलफालविस्फारिभिः स्फुलिङ्गैः फुल्लन्नुल्लोलवल्गिनीभिर्वालाभिः स खलु सामीरणेन रंहसा निर्जगाम दुर्निरीक्ष्यो राक्षसः, स्थितश्चाग्रे ।
तस्य च विसङ्कटाकारविस्तृतहुताशनाभोगस्य सुदूरमनुसर्पिणा(ज्वा)लाकदम्बकेन ज्वलतीव मेदिनी, ज्वलन्तीव ककुभः, ज्वलतीवाम्बरं, विश्वमपि प्रलयकालानलकलापोद्दीप्यमानमिव दुस्सहावलोकमापन्नम् । अथ तथाकृतोपस्थितिरसावग्निमयाकृतिरग्निमयालोकपडतिरग्निमयालापवृत्तिरग्निमयास्त्रसंभृतिरग्निमयाशेषव्यावृत्तिश्च दुरक्षरेण वचसा क्षितिपालमब्रवीत् ।
नैषा हन्त शिला न तालविटपाद्यस्त्रेषु चास्त्रं किम___प्येतद्यत्र विपञ्चयिष्यसि बलं बाहोरसेः कौशलम् । भ्रातर्वहिरसावनेन बलवज्वालावलीढस्य ते - नान्योऽस्मत्करुणारसश्रुतिभरादास्ते परित्राविधिः ॥ . तदयमालिह्यसे ललत्कालजिह्वाविलोलकोटिभिर्वालाभिरभिहितोऽसि भो रक्ष रक्षात्मानमस्ति रे शक्तिरित्येवमुक्तो महीपतिः कृत्वा स्मितं प्रत्युवाच । रे क्रव्यादकीटक साधु साधु अवधानेन सजीकृतोऽस्मि, क नाम छलप्रहारिणामन्वयोत्पन्नेन भवता शिक्षितेयमेवं प्रवीरपुरुषोचिता सङ्ग्रामरीतिः। किन्नु रे मूढ पारुष्यविषमाभिघातदारुणे प्रहरणं नाम सुदूरमास्तां, यः किल सुखस्पर्शेन पयसाऽपि सिक्तः प्रलीयते तस्य हुतभुजोऽवष्टम्भेन यदित्थमाजौ प्रगल्भसे तेनाविमृश्य विचरनिश्चितोऽसि पिशाचजन्मा पशुः, पशवो हि वध्याः समराध्वरेषु । अतोऽद्य मया वधेन सम्भाव्यसे । श्रुणु यथा सम्भाव्यसे ।
सर्वत्राङ्गेषु वल्गद्धनगहनशिखाचक्रचण्डाग्रकोटि११-१२ उदयस०