SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता क्रोधेन यातुधानः पुनरन्यमन्यादृशा प्रहारोपक्रमेण शाखिनं व्यमुश्चत् । अवहितश्च राजा तमपि तेनैव पथा निर्वर्तितवान् । अन्यमन्यं च यं यमुर्वीरुहमतिक्रोधदुईरो निशाचरः क्षिपति तं तं नभस्युद्दण्डताण्डवनटेश्वरो नरेन्द्रश्छित्वाऽवनौ प्रकीर्णमेव दर्शयति । एवमन्यदप्यनेकोद्दण्डगण्डोपलशिलादि यद्यथा समर्थमस्त्रीकरोति नक्तश्चरस्तत्तथैव प्रपश्चितोचिताघातभङ्गेन विघटयत्युर्वीभुजां प्रवरः। ततश्च क्षितीन्द्रकरतलितासिपत्रप्रभावपरिभूयमानेषु विषमपातिष्वनेकशोप्यस्त्रेषु बाढमुद्दीपितः प्रबलबहुलकोपानलेन कौणपः कुतोप्याकृष्य करे कृतमुत्क्षिप्तवानेकमपूर्व, विश्वसंहारविदलितस्य ब्रह्माण्डसम्पुटस्य कर्परमिवोत्पातचलितचण्डानिलेन बलादुल्लालितं, क्षितिपीठमिवादिकोलेन दंष्ट्रया विधृतं, कल्पान्तविघटितं कमठेन्द्रकटाहमिव स्फुटनवेगादूर्ध्वमुच्चलितं, देवतावतारितमिव अद्भुताद्मविस्तरं शिलापिण्डम् । उपरि चान्दोलयन्मस्तकस्य स दर्पोद्रेकदुस्सहमवादीत् ॥ कालस्यासनपीठिकाऽतिमहती भित्तिश्च मारीगृहे मृत्योरप्यभिषेकमङ्गलविधावायामिनी वेदिका । महाहुप्रहिताऽद्य वीर शृणु भोस्त्वां संहरन्ती शिला योऽन्यः कश्चिदिहामरेष्वपि भटस्तेनाप्यसौ रुध्यताम् ॥ इत्येवमभिधाय (प्रहर्तु प्रवृत्ते राक्षसे) नरपतिविनाशशङ्कया हा हा गृहीतमप्रतिसमाधेयं पापेन रक्षसा प्रहरणमिति साकुतमाकुलीभवति तपस्विन्याश्चेतसि, अहह दुष्करमितो विमोक्षणमवनीश्वरस्येति विषीदत्सु खेचरजनेषु,अहो नि थमिदं जगजायते लग्नमिति च समन्तादुत्ताम्यति दिगीशवर्गे, न किल यावदसावाक्षिप्य क्षिपति तावदेकहेलयैव कलहकौशलविशारदो मेदिनीपतिरपहाय खगमादाय च विचित्राघातघटनैकचण्डं गण्डोपलमतिरयविसर्जितेन संवारिताखिलभुजस्था (स्थे ? )ना तेन झगित्याजघान कराग्रमणिबन्धे पलाशिनम् । तस्य च गण्डोपलास्फालदलितमणिबन्धविधुरात्परिभ्रश्य हस्ताच्छिला भूतले पपात । सा ताहगारम्भसंरम्भिणी महाशिला विवेश च निजाङ्गभर(दा)रितधरातला पातालम्, उत्थितश्च नरेन्द्रसम्बन्धिना साधुवादेन मिश्रितः समरमुत्पश्यतां नभसि नभश्चराणां कलकलः । अत्रान्तरे निष्फलीभूतबलवदखिलास्त्रपातप्रयासतया विलक्षो रक्षसां वरः सहसैव कचिददृश्यभावमापद्य प्रयातवान् । उर्वीश्वरस्तु विस्मितेन व्यचिन्तयत् । ननु कि
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy