________________
७८
सोडलविरचिता
श्लोकनविकल्पेनालोकयन्नेव तिष्ठामि । निर्लोचयामि झटिति चैनमित्येवं विचिन्त्य कृतान्तसद्मनो मुखस्य द्वारि बडास्थितोरणस्रजमिव विसृत्वराकारशिखरां विकासयन् दशनसंहतिं, तयैव च विशालधवलया प्रलयजलधरबलाकाच्छन्नमिव भुवनमापादयन् , अखिलदिग्गजकुलावत्रासकेन ध्वनिना सोल्लुण्ठहासं जहास । हेलया चाब्रवीदहो को भवान् किमेवमस्या कृते त्रिदशैरप्यनभिगम्यविक्रमं वि(नि)ग्रहीतुमागतोऽसि मां । को हि कन्तविस्तृताम्बोधिजलमहाप्लवेन प्लाव्यमानां प्रस्खलितुमिह क्षमः क्षोणी, का नाम बलवान्मया निगृह्यमाणामिमां विमोचयितुमीश्वरस्तापसीम् । किश्च किं मे त्वया द्विभुजेन जन्तुना क्रियते । योऽहमयोध्यश्चतुर्भुजस्य विष्णोरपि, दशभुजस्य हरस्यापि, द्वादशभुजस्य स्वामिनोऽपि, अन्येषां तु गणनैव कियतीतदेतदिष्टोपदेशानुग्रहेणोच्यसे, कल्याणप्रकृतिरसि, किमित्येवमशक्यसङ्गरसमारम्भादात्मानमनर्थसङ्कटे पातयसि, किमिति तारुण्यतरलितो गगनमुत्पतसि, किमिति दर्पान्धः कृतान्तमुखकूपे निपतसि, किमिति वीरव्रतसंयमी मृत्युमाराधयसि, किमिति शौर्यग्रहाविष्टो ज्वलत्यग्नावात्मानं क्षिपसि, किमिति रणरसास्वादप्रवृत्तो विषतरुफलानि खादसि, किमिति सुभटचर्याकुतूहलैकदुर्ललितो दारुणेन फणिना क्रीडसि, किमिति विभुजबलावष्टम्भविनटितो दिग्गजेन कराकृष्टिकेलिं करोषि, किमिति चापन्नपरिरक्षणप्रवणो रणेन विश्वैकवीरं मामुपक्रामसि, व्रज विमुश्च दुःशिक्षितदुरन्तमिममध्यवसायमायोधनस्य न खलु विमुखेषु रक्षसां प्रवरः प्रहरतीति प्रोक्ते पलभुजा भूभुजामधीशः प्रत्युवाच ।
रे रे दुर्जीव किमेवममुना प्रश्नादिनिरर्थकालापकोलाहलेन जनयस्यन्तरायमुपस्थिताहवमहोत्सवस्य । स्वप्रशंसापरो हि यत्त्वं किल बहुभुजानामपि पुंसामयोध्यमावेदयन्नात्मानं द्विभुजनिन्दापरायणो मामवज्ञया जुषे तत्र सा तवैव पिशाचिकोदरकोशकीटकस्य गरीयसी। नरेषु बहुबाहुता नाममात्य(न माहात्म्य ? )स्य । किन्नु न ज्ञातवानसि यत्खलु स्वामी निशाचरचक्रस्य रावणो विंशत्याऽपि भुजानां द्विभुजेन क्षुरनिशितधाराग्रदलितगलकन्दलोचलन्मौलिपातमुपसंहृतो रामेण, भार्गवेण च भुजसहस्रविस्तृतः कार्तवीर्यः, तद्वधारय भटानां भुजद्वयमेवोपयुज्यते संयुगेषु ॥ तथाहिउश्चच्चित्तानां त्रिभुवनजये दक्षिणभुजः
कृतारम्भो वामः पुनरभयदानाय चकिते ।