________________
उदयसुन्दरी कथा। कलापस्योपरि परिस्फुरन्त्या तुषच्छटयेव योगपट्याकृतोत्तरासङ्गा, प्रकाशितरूपमादर्शबिम्बमिव भस्मनोवर्तितं गात्रमुद्वहन्ती, चतुरङ्गप्रमाणमासूत्रयतो विधेरङ्गस्पर्शकम्पिताद्विच्युतेन कराद्गुणत्रयशालिना विकर्णमानसूत्रेणेव यज्ञोपवीतेन विराजमानां, पृथुनेत्रकृष्णाजिनरुचा कुचकमण्डलुवाहिन्या त्रिवलिमेखलाबन्धभृता धृतव्रतलिङ्गयेव गात्रश्रिया परिगतां, माहेश्वरी मूर्तिमिव शशिखण्डमण्डितां ललाटेन, वैष्णवी हृदयभूमिमिव कौस्तुभविभूषितामधरेण, पैतामहीमासनस्थितिमिव सरोजमयीं धवलाक्षिविक्षेपेण, वृक्षशिखाशायिभिरार्तरवप्रबोधादुत्कूजद्भिराक्रन्द्यमानामिव पतत्रिभिः, अनिलान्दोलितशिरसा निवार्यमाणकौणपामिव पिप्पलमहीरुहेण, प्रसारितकरेणाकृष्यमाणामिव सुधाकरेण, कृतालिङ्गनेनापसार्यमाणामिव निशीथमारुतेन, प्रशान्ताकारसुन्दरां चतुर्दशवर्षवयसमेकां कन्यातपस्विनीमपश्यत् । दृष्ट्वा च झटिति मा मा भैरिति गृहीतकरुणारसैर्वचोभिरासन्नमरणभयोद्भूतशोषामाश्वासयंस्तपस्विनीमहो भद्रमसृग्भुजा हतकेनास्पृश्यमानायामेवाहमस्यां त्वरितमिह प्राप्त इति प्रतोषोल्लसितमानसः सहेलहकारवं विमुञ्च विमुञ्चापसर्प रे दुरात्मन् न खलु भाजनमसीदृशानामाहारोपकरणवस्तूनाम् । तथाहिएनां तव प्रकुथदामिषखण्डसाध्ये
भोज्ये यदीत्थमुपयोगवतीं व्यधास्यत् । वेधास्तत्र खलु रूपविशेषशिल्प
__ सङ्केशमीदृशमसौ बत नाकरिष्यत् ॥ तदहो विस्तारिणि पितृवनेऽत्र कुत्रापि निपुणमन्विष्य कालापहृतजीवितासु जन्तुकुटीषु शटितपिशितपिण्डकैः कुरु दुष्पूरणमात्मनो जठरगर्तकस्येति तं नक्तञ्चरमवोचत् ॥
सोऽपि झगित्यालोक्य राजानम् , अपि नाम सुरसिद्धविद्याधरोरगमनुजगुह्यकानामन्यतमः, क एष युवा, मया हि किल सर्व एव त्रिभुवनोदरविवरसञ्चारिणो वीक्षिताः पुमांसः, पुरुषपुङ्गवस्यास्य तु किमप्यपूर्वमेवाङ्गेषु लावण्यम्, अन्य एव कलापः कान्तेः, अपरैव हि रेखा सौन्दर्यस्य च, आरभटिस्तु किमापृच्छ्यते योऽयमत्यन्तभासुराकारदुर्निरीक्षाणां रक्षसामपि भयङ्करस्य ममाग्रे निर्विशङ्कमुत्वातखड्यष्टिरेवमात्मानं दर्शयति, तन्न सामान्यो भटमात्रमसावद्भुतः कश्चित् । अथवा किमिष्टार्थपरिपन्थिनमपहस्तनीयं प्रतिभटमुप