________________
उदयसुन्दरी कथा। तथास्थितस्य हि चिन्तया नभसि निक्षिप्तचक्षुषो राज्ञः सहसैव तावन्तमपि संहृत्य दिगन्तसंभृतं चन्द्रिकाभोगम्, अपाकृत्य च जेतारमपि तमसां चन्द्रमसं, असीमप्रसरः पुनर्निवत्येवागतस्तावदारम्भस्तादृशस्तथैव भुवनमाच्छादयन्नुपस्थितो वियति विस्तारवानन्धकारः । तमालोक्य च राजा सञ्जातविस्मयो मनसि भावितवान् , अहो कोऽयं किं जन्माऽयमेवं महाद्भुतविभूतिरकस्मादन्धकारः। किं नाम स खल्वस्तगतो हिमांशुः।परं तिथिरद्य सा। यस्यां प्रथममेव कियद्धटिका च विध्वान्तमनन्तरमखिलाऽपि यामिनी चन्द्रमसा विभाति । कालोप्यहेमन्तवार्षिकतया निर्मलाम्बर एव न च विना पार्वणं दिवसमिन्दुग्रहणतया सर्वग्रासेन तमोऽपि राहवीयमाशङ्कयते । तत्किमेतत् । किमेष पुनरुद्भतपक्षतया समुड्डीयान्तरिक्षशिरस्यारूढवानञ्जनाद्रिः, आहोस्विदकालजलधरः कश्चिदुन्नम्य समागतस्स्यात्, इन्द्रजालं वा केनाप्युपदर्शितमित्येवं विमृशति महीश्वरे क्षणादेव स खल्वन्धकारो निजापसारेण समुद्घाटयन्नन्दवीं विभूतिमेकत्र पुञ्जीभूय गगनानगरपरिसरोत्सङ्गवर्तिनि भूतले पपात । तत्पातसमकालमेव तस्मिन्पातयन्निवाश्रूणि, द्रावयन्निव हृदयं, छिन्दन्निव बन्धनानि, दूरोपसर्पणवशादकलिताक्षरव्यक्तिरत्यन्तमातः पूत्कारकरुणो ध्वनिरविश्रान्तमुत्तस्थौ । श्रुत्वा च तं शब्दं ऊहनासगर्भमुद्भूतकरुणः क्षोणीश्वरो नन्वसावेकहेलयैव तमोराशिरम्बरमपहाय संवृतेनात्मना कः किल महीमवतीर्णवान्, अत्र च दूरान्तरोत्थानादतारमधुरः कस्यायमाक्रन्दमुखरो ध्वनिः, अथ भवतु यस्य कस्याप्येष पूत्कारः किमनेन, समन्तादातपरित्राणं नाम धर्मः सतां विशेषतः क्षितिपालनेष्वधिकारिणां क्षत्रियाणाम्, अतस्तावदविलम्बमेवात्र गत्वा पतितमापदि प्राणिनमाश्वासयामि, प्रसङ्गादस्य च तमसोप्यन्वयमवगमिष्यामीति निश्चित्य उत्थाय शय्यातलात् विधाय च वीरचर्योचितां वेषसंवृत्तिं आकृष्टखगः प्रावृतान्धकारपटप्रभावादलक्ष्यमाणोऽङ्गयामिकैरारब्धगमनवेगो मुहूर्तात्तं प्रदेशमाससाद ।।
झगिति श्मशानवासिन्याश्चण्डिकायाः शून्यायतनस्य नातिदूरवर्तिनो विशालविटपेनाश्वत्थशाखिना सनाथस्य महान्धकूपस्योपकण्ठे तेनान्धकारपटलेन कायकान्तितया व्यक्तिमागतेन मलिनाकृतिम्, अत्यन्तदीर्घतया दीर्घ त्रिविक्रमादपि, प्रकामपृथुतया पृथु तारकपथापि, सरलासितमूर्तितया लोहाक्षमिव कालचक्रस्य, घृणावद्रूपतया तलारमिव (१) नरकनगरस्य, रक्तोपवर्द्धिताङ्गनया गर्भपातमिव मारेः, अतिथिमिव भुवनभोजिनः कृतान्तस्य, सहायमिव