________________
उदयसुन्दरी कथा। मसितवसनां नीलाभैरप्यलङ्करणैर्वृताम् । . कलयति शनैरागच्छन्तीं मुखानिलसम्मिल- .
न्मधुपरणितैः सङ्केतस्थो युवा हृद्यप्रियाम् ॥ किं बहुनाअन्धत्वमाहितं मन्ये तमसा दीपकेष्वपि ।
अतो हस्तधृताः स्त्रीभिः सञ्चार्यन्ते गृहेष्वमी ॥
क्षणेन च पौरन्दरी दिशमनु तादृशतिमिरनिकरेण नीलीकृते नभसि, हरहासराशिरिव दक्षिण (दाक्षायणीमुखे, ?) पाञ्चजन्य इव जनार्दनकरे, निर्मोकपुञ्ज इव कालियफणापञ्जरे, फेनपिण्ड इव यमुनाजले, मृगेन्द्र इव तमालकानने, हंस इव कुवलयवने, बलाक इव नवाम्भोवृन्दे, झगित्याविर्बभूव तारापतिः । ततश्च
ध्वान्तैकशत्रुरिति निर्भरकोपवह्नि- संश्लिष्टदृष्टिपतनैरभिसारिकाणाम् । चन्द्रः सुवृत्तसितबिम्बनिभेन भस्मपुञ्जीकृतः शिरसि पूर्वगिरेबभूव ॥
तस्माच्च
पदं कृत्वा निरालम्बमुपरिष्टादधिष्ठितः।
पूर्वशैलाक्षरस्येन्दुरनुस्वार इवाबभौ ॥ क्रमेण चचान्द्र महो मण्डलभाजनस्थं
दुग्धं यथा यामवतीमहिष्याः । वियोगिनां दृग्दहनोग्रतापै
रुल्लासितं व्योमतले लुलोठ ॥
धामभिः सितमयूखसमुत्थैः सान्द्रदुग्धविसरैरिव धौतम् ।
अन्धकारमलकजललेपत्यक्तमम्बरमभूदतिशुभ्रम् ॥ अथप्राप्य मण्डलमचण्डरोचिषश्चुम्बकाश्मसदृशं मधुव्रती । तीव्रभानुहतकैरवोदरानष्टशल्यकलिकेव निर्ययौ ॥
१० सदयस०