________________
उदयसुन्दरी कथा। बुद्धवानस्मि । इदानी परमेकहेलयैव लघुस्वरूपमग्रे विलोक्य स एवायमिति सादृश्या(त)पूर्णाभिज्ञानहर्षस्त्वरितमागतः प्रतीहारावगम्य दक्षिणदिगङ्गनाभरणकुण्डलं कुन्तलं देशमध्यासितं प्रतिष्ठाननाम्नो नगरस्य स्वामिनमवन्यामेकनाथमानन्दिनामधेयं भवद्वस्थानशोभनां भुवमनुप्राप्तः । त्रिभुवनैकभूषणमियं च दर्शिता चित्रेण कन्यका । कथितं च यथाऽनुभूतं कुतूहलम् । आलोकितश्च ज्वलत्कन्दर्पहुतवहोत्तप्तसीमन्तिनीमनोविश्रामधारागृहं देवः । प्रमोदाह्नादितं च प्रसन्नदर्शनालापगोष्ठीसुखानुभोगेन सनेत्रश्रवणमन्तःकरणम् । अतश्चाद्य पुरुषधर्मानुबन्धी दिगन्तरानुसरणप्रसङ्गेन युष्मत्सङ्गमान्निवृत्तकृत्योऽयमात्मा । जातश्च ममात्र संसाराम्भोधिपतने भवत्परिचयात्मको रत्नलाभः । प्रत्येतु च मर्त्यलोकमकरध्वजः स्वामी । यस्मादसौ कुमारी यथा चित्रगतेनात्मना सेव्यमानया भवत्प्रतिमूर्त्या सनाथमित्थमेनं पटमावहन्ती भगवन्तमम्बिकादयितमाराधयति तथा नूनमनुरागिणी त्वयि प्रसूनशरसायकशिखाभिः खण्ड्यमानमर्मग्रन्थिरत्यर्थमन्तर्व्यथामनुभवन्ती कापि कालं क्षपयति । एतन्नु पुनरित्थमावेद्यते । यत्खलु कुतश्चिदसम्भाव्यमानदर्शनया तया सौन्दर्यसम्पदा भोः क्षितीन्द्र तादृशी सा, न या निखिलविश्वकल्पनाशिल्पनिपुणेनापि वेधसा स्रष्टुं पार्यते, न या निरस्तलोकत्रयवराङ्गनारूपश्रीभिरपि शचीप्रभृतीभिर्वि जेतुं शक्यते, न या त्रिभुवनाधिपत्यार्पणसमर्थेनापि तपसा प्राप्तुमर्हतीत्येवमुक्त्वा व्यरंसीत्।
राजाऽपि अहो ! सुमहदेतदाश्चर्यम्, इमं वृत्तान्तमावेद्य कुमारकेसरिणा विस्मायितमाप्यायितं च मे मानसम् । यत्किलात्र संसारमहोदन्वति विष्मक ल्मषोल्लोल (विषमकर्मकल्लोल ?) लीलाभिरन्तरितं क दृश्यते कुत्र वाऽऽसाद्यते तादृशं कन्यकारत्नम् । अथवा किमत्रालोच्यते निश्चितमचिन्त्यघटनापटीयानेषविधिदुर्घटान्यपि घटयत्यतो विधिरेव मे कदाचिदनुकूलवर्ती कुवल यविलोचनां घटयिष्यते तामित्येवमनुचिन्त्य पुरोयायिनं कुमारकेसरिणमनल्पप्रेमोपचारचारुभिर्वचनैरुपरुध्यावस्थितये कृताभ्युपगममादाय निर्गतो मणि मण्डपाविसृज्य च पारितोषिकालंकरणदानैर्जनितसन्मानं वसन्तशीलमारुह्य च तुरङ्गमं सह प्रणयिना सामन्तवर्गेण नगरमधिविवेश। __इतश्च कन्याकृते नरपतिरेष मयि न्यस्तभार इति विधिना प्रहिता तां मुगयितुमिव जगाम दिनसूर्ययोर्युगली । ततश्च
संध्योन्मेषसमृद्धः पश्चिमदिग्पर्तिभूभृतः शिरसि ।