________________
सोडलविरचिता झगित्यागत्य च उपजातवक्त्राम्बुजम्लानिरिह पटे प्रगाढदृष्टिस्तम्भितेव निश्चलाङ्गी क्षणं किञ्चिद्विचिन्त्य सक्रोधमिव तां मयि वितीर्णशापां तपस्विनीमुवाच । हा हा कोऽयमार्ये सकलसत्वानुकम्पनपरस्य भवादृशो जनस्य विमलसमाधिसिन्धुनिौतक्रोधमलोपलेपश्चेतसि । आः कृपारसतरङ्गिणि भस्मनस्समालेपेन धवला हिमकालचन्द्रिकेव प्रकामशीतलाऽपिक्लमकरी संवृत्ताऽसि। कराग्रवर्तिना रुद्राक्षवलयेन कुण्डलितविषधराध्यासिता चन्दनलतेव आह्लादिदर्शनाऽपि भीषणीभूतासि । कपिलपाटलशिखावतीभिर्जटाभिर्दावदहनार्चिष्मती महीध्रमेखलेव सत्वाश्रयाप्यसेव्यतामागताऽसि । तत्किमेवमाराध्यचरणे! प्रघनकोपानलज्वलितया दृशा तडित्पातमाचरन्ती जलधरेवात्यन्तममृताशयाऽपि लोकमुत्तापयसि । किमितिचाक्रोशकटुरवेण वचसा स्फुरन्मुखरोर्मिकलकला दुग्धाब्धिवेलेव मधुराऽपि व्यथयसे । शान्तेन्द्रियं किन्नाम संसारदूरीकृतं त्वमद्य विस्मृता भगवती, येन शुक्तिभङ्गादागतेन सर्वार्थपरिपन्थिना कोपेन शप्तोऽयमतर्कितोपनतदुश्चेष्टितविपाकस्तपस्वी, तद्वधारय किमनेन प्राणिना कृतम् । अनेन निस्सङ्गपथवर्तिनामनुचितं दृषद्वस्तुमात्रमसौ शुक्तिका भग्ना । क्रोधेन तु किमङ्ग कथ्यते या किल हरिहरब्रह्मणामपि दुरापा निश्श्रेयसरसास्पदं क्षमा नाम ज्ञानमयमयूखवती विवेकमणिनिर्मिता तावकी शुक्तिस्तामद्य परमाणुभङ्गेन भूरिशो विमर्च जनिता महीयसी हानिः, तद्येन भगवति तवेदमपकृतं तमेव संसारसागरग्राहमरिषडगविजयिना प्रशमेन शमय कोपम् । एनं तु शुद्धाशयमिदानीमनुगृहाण शापान्तेन । किश्चान्यदपि याच्यसे यथाऽसौ शुकजातिगतोऽपि विशेषवता मनुजचैतन्येन कालं गमयति तथा करोतु जन्तूनां हितहेतुरार्येति साभ्यर्थनमनया प्रसादिता जातानुतृप्तिरिव सा तपस्विनी वत्से यद्येवं तद्यथाऽयं पटोऽस्य शिरसि शिखात्वेन प्रोन्मेषमेष्यति तथा तदुत्थानपूर्वम (भ्रे)षवाङ्मयाव(भि ?)रामनिर्मलं चैतन्यमुत्पत्स्यते यथा च ममासनगतेन भग्नेयमरुणमणिमयी शुक्तिस्तथाऽस्य यदा कस्यापि जगदेकभर्तुरास्थानवेदिकागतस्य शुक्तिकायमाना चञ्चूर्भङ्गमायास्यति तदाऽयमात्मप्रकृतिमासादयिष्यतीति शापान्तेन मामनुगृहीतवती।
अथाहमेतस्मिन्नन्तरे झगित्युपनतया शापाभिधानया नियत्या कबलिते चैतन्यविवस्वति, मीलितेष्विन्द्रियारविन्देषु, सर्वतश्चान्धकारिते जगति, अत्य सद्भावमिवात्मनः प्रतिपद्य निस्सङ्गभावमव्रजम् । अनन्तरं चकोऽहं कुत्राहं कथमहं किं मूर्तिरहं किं वसतिरहं किं प्रचारोऽहं किमभ्यवहारोऽहमितिन किञ्चदव