________________
उदयसुन्दरी कथा । रसागरसरणेरियमीहशी शिल्पविधिविशेषसारा सृष्टिरेषा पुनरत्रैव कन्यकावस्तुनि व्यक्तीभूतेति युवयोरपूर्वाकारसुन्दरिमदर्शनोल्लसितविस्मयरसप्लवेन जडीभूत इव निश्चलावयवकायो विकसितेन चक्षुषा प्रत्यङ्गमुभयतः क्रमेण निरीक्षितुं लग्नः।
अत्रान्तरे च कुतोऽपि गर्भगृहोपकोणदेशाडवला भस्मनः प्रलेपेन, कपिला जटाभिः, आपाटला जटानामग्रकोटिभिः, आवरणवल्कलेन च हरितकान्तिरित्यनेकवर्णधरा मूर्त्तिरिव गारुडी तत्कालकलितदारुणभया दुरवलोकप्रकृतिरेका भ्रुकुटिबन्धकारितमुखी प्रकामवृद्धा तपस्विनी कोपेन परमुदर्गलं ज्वलन्ती निर्जगाम । निर्गत्य च सहसैव सा कण्टकघटासङ्घटितैरिव, ज्वलत्कणकरम्बितैरिव, शृङ्गिविषनिषिक्तैरिव, रोषशाणोत्तेजनतीक्ष्णैर्वचोभिः आः पाप पुरुषरूप प्रपश्चितपशुभाव त्रुटितपटुविवेकगुणोद्भष्टचैतन्य धिङ्मानुष्याधम त्वया किमेतदाचरितमपवित्रम् । कैतदपवर्गसंविद्विषयनायकजनयोग्यमासनस्थानमारूढोऽसि । मूढ किमिति देवतार्चनवस्तूपकरणमियं भग्ना । तन्नूनमिदानीं त्वमस्यैव कर्मणः फलमनुभव । प्रथमसमुत्थितेन वचसा प्रोक्तः पशुरेव । किन्त्वन्यत्र समुड्डीय पतनेन पतङ्गजातावनेन च माणिक्यशुक्तिकाभङ्गेन तदाकारया चञ्च्वा शुको भूत्त्वा क्षपय कालम् । अयं च पटः शिरसि शुक. जातिविलक्षणं शिखा भविष्यतीति मां शप्तवती । अहमपि तथा शप्यमानस्तया ननु किं मया कृतमिति यावद्धस्तात्पश्यामि तावदास्तृततदीयकृष्णाजिनोपरि स्वचरणेन भग्नां माणिक्यमयीं शुक्तिमपश्यम् । दृष्ट्वा च सानुतापमये चित्रविलोकनाक्षेपपरतन्त्रतया हृदयस्य, यावदसावुपमर्य भिद्यते तावदपि न चेतितं मदडितलेन । तदियमेतस्य कर्मणः सुमुपस्थिता परिणतिः । भवतु स्वीक्रियत एव दैवेन यथा प्रदत्तमेतत्फलम् । यतः।
गात्राणि कांस्यपात्राणि कर्मभिश्छिद्रितान्यसौ। ___ कांस्यकार इवाजस्रं परिवर्तयते विधिः ॥ __तन्नमे दुर्विषहशापसन्तापदुस्तरमेतत् । तथाप्यथेदमतिदुरन्तसंवादं दुःखमुपनतम् । यत्किल केयं कस्य सुता कतमकुलप्रसूता क वसतिः कुतोऽत्र समागता किमभिधाना त्रिभुवनेप्यनन्यतुल्याकृतिः कुमारी कमेनमपहस्तितानङ्गरूपं पुरुषपुङ्गवमिह हृदीव पटे लिखितमावहतीति न खलु प्रश्नानवसरेण कथश्चन परिज्ञेया च बभूवेति चिन्तयति मयि प्रायस्तथा शापकलकलमाकर्ण्य झटित्युन्मुक्तपुष्पापचयकर्तव्या त्वरितमेव द्वित्रिसखीसनाथमूर्तिरसौ कन्यका संभ्रान्तेव ततोऽतिनेदीयसः कुसुमवाटिकोदरादाजगाम ।।