________________
उदयसुन्दरी कथा। यकोलाहलम, उल्ललङ्घजपटफटत्कारितोपकण्ठकनकदण्डिकादारितनभस्तलम्, उल्लोठिताध्वजलधरम्, उत्सारिताग्रतारकं, स्वरूपमविकृत्य त्वरितमन्तरिक्षण गच्छतस्तस्य तिमिरपटलोन्मूलितालोकवृत्तिरहमन्येन नीयमानोऽन्ध इव, क एष ककुभो विभागः, कियतिक्रान्तं पश्चात्, अग्रेऽपि कियद्गन्तव्यम्, किदृशी चासौ वसुमती, कीदृशाहि ते गिरिसरित्कान्तारपरिगताः पन्थानः, कीदृशोऽप्यसौ जनपदप्रचार इति न किञ्चिज्जानामि, केवलं चरणचङ्कमणपीडाभिरुज्झितःपदे पदे मृदुसमीरलहरीनिवेशशीतलोचनो यानेन गतिसुखमनुभूतवानस्मि । तथा व्रजतश्च मे किमाश्चर्यमावेद्यते सहसैवमेकत्र भग्नदिव्यप्रभावमिव, चलितसञ्चारयन्त्रमिव, तावत्पथासमर्थमिव, केनापि विधृतमिव, क्वापि प्रस्ख. लितमिव, विमानमस्पन्दरूपतया स्थिरीभूय तस्थौ।
तथा स्थिते च तस्मिन्नुभूतविस्मयोऽहं नन्वनाकारसमतलेऽस्मिन्नभोऽध्वनि कोऽयमसंभाव्यमानपरिस्खलनविषयस्यास्य किल निश्चलतया स्थितौ हेतुरिति सर्वतो निभालयन्न किश्चित्तादृशं कारणमुपलब्धवान् । एकं च परं तस्य तलमयनिर्माणमणिदलोद्योतेन मूले दुरन्तविस्तारमम्भसः प्राग्भारमपश्यम् । तदालोकेन च सवितकमहो कोऽयमियता जलाभोगेन भूतले प्रदेशः किमयमुद्वन्त:( म्महत्याः ?) कस्याश्चित्सरितो महाहृदः, किमिदमुल्लोलकवलिताभ्रसंरम्भमद्भ वा सरः, किञ्चिदथ प्राप्तस्तमेनमहं लङ्कापुरीप्राकारं दक्षिणाम्भोधिमिति निपुणं निरूपयन्ननुसमुद्र एवायं कस्यापरस्य परितोऽप्येवमलघुपरिसञ्चरद्भरितमतिमिङ्गिललितविद्रुमदलदन्तुरोर्मिशोणिमवती वारां विभूतिः। एवं चेत्किमित्यवान्तरएवानुत्पन्नरोधमपि स्थितमेतदिति यावद्वधारयामि तावदेकहेलयैव कलकलितकिङ्किणिनिनादोन्नादितनभस्तलेन सर्वाङ्गमुत्कम्पितम् । तेन तत्कम्पविचलितासनतया साकूतमितस्ततो दण्डिकासु लगितुमाकुले मयि सह मयैव परिभ्रंशनिस्सहं विमानमगाधगर्भे तस्मिन्निपपात ।
तेन च क्रोडीकृतः क्षणादेवं हानिफलसमारम्भोऽहमुपरतइतीयन्मात्रचेतनो निमग्नोऽस्मि । तत्कालमग्नोऽहमधस्तान्न जाने, कथञ्चन सहसैव परं प्रबुडकरणवर्गः । न च तेषां विमानसागरावर्तवलयानामेकोऽपि । केवलं विमलविद्रुमशिलासम्पातस्य विसङ्कटाकारशालिनः प्राकारवलयस्य द्वारवर्तिनमात्मानमपश्यम् ।
तथाऽवलोक्य विस्मयचपलेन चेतसा सर्वतो निक्षिप्य चक्षुरहो क किल दिव्यं तद्विमानयानं येनागतोऽस्मि । क स प्रसरदुर्गमः समुद्रो यस्यांभसि