________________
६२
तिमिव प्रतीयमानं, प्रमाणवयसमल्पास्थिकर्पर कसृष्ट्या स्त्रजा संयमितजटाकari कापालिकमपश्यम् ।
सोडूलविरचिता
स चावतीर्य कृताभिवन्दनो देव्या विस्मित इव ममान्तिकमाजगाम । कृताभ्युत्थानपूर्वमुपरचितप्रणामेन च मया दर्शितोचितप्रश्रयः समुपविश्य वत्स ! कुतोऽत्र दुरतिक्रमापायभूरिण्यरण्यविधुरे निपातितोऽसि कतमः किमर्थमिति ससंरम्भमुवाच । अहमप्यादितः समस्तमात्मनो स्व (न्व ?) यनिवेदनादारभ्य दुर्विनयविस्तृताध्यवसायपरिकराङ्कं लङ्कां प्रति प्रस्थानमाख्यातवान् । ततश्चासौ मुनिः सशिरः कम्पमेकाग्रतया क्षणं सन्मुखमुदीक्ष्य झटिति घटित - पर्यङ्कबन्धः स्थिरीभूय नभसि निक्षिप्तचक्षुरस्थात् । अथ क्षणेन कुतोऽप्यागत्य
नवाभ्रपट्ट १
ये गजदशनमुसलायमानं भुजद्वयमेवास्ते ।
दंष्ट्रयोरादिकोलस्य यत्र न प्रौढिरिष्यते । तत्रैतदायताभोगमास्ते धीरस्य दोर्युगम् ॥
अपिच
त्रैलोक्यश्रीरसौ दासी तावदुच्छृङ्खलायते । यावद्वीरः कृतास्कन्दो न दोर्दण्डमुदञ्चति ॥
तदेषाऽद्यतनी द्यूतवृत्तिरल्पेन प्रभूतमुत्पादयन्ती लाभवती मे वणिज्या समभूत् अन्तः समारुह्य चेमामिदानीमेव किं न व्रजामि । दिव्यशक्तीनिहि विमानयानान्यारूढिसमकालमेव चिन्तितां दिशमुद्दिश्य नभसि प्रयान्ति । तिमिरमुद्योतश्चेति चर्मदृशामस्माकम् । अमीषां तु देवतासिद्धानां सर्वं प्रभासविस्पष्टमेवेति सञ्चिन्त्य, प्रणम्य क्षेत्रपालपरिग्रहां च भगवतीमम्बिकामनुगतसमाहितेन चेतसा संभाव्य तद्विमानमारुढवानस्मि ।
तद्धि क्षितिपालशेखरमणे शृणु, प्रचारपाटवेन या (ता?) दृशमारूढे मयि झगित्येवोत्पत्य हरगलगरलकज्जलमलीमसं सुदूरमन्तरशिरोभागमारुरोह । ततः परमुपक्रान्तं प्रयातुम्, अनन्तरमारचितगुरुवेगनिर्गमप्रसरं परितो विस्फु रन्तीभिरतिधवलवैजयन्तीभिर्ग (ग) नगङ्गाडिण्डीरवल्लरीपटलमिव मरुता नीयमानम्, अनणुमणिकर्मनिर्मलोद्योतडम्बरेण प्रदीपतन्त्रमिव तिमिरविग्रहेणोच्चलितम्, उच्छलत्किङ्किणीरणत्कार निःस्वनैर्वेगोज्झितसमीरमिवारब्धविज१ अत्र ग्रंथो विगलितो भूयान्