________________
उदयसुन्दरी कथा ।
६१ द्योतमानं दिव्यरत्नम्, अये शून्यं चण्डिकायतनमेतत् एषा च सा भुजगमणेरस्य प्रदीपसंशयवती कान्तिकलिका । तत्साधु संवृत्तम् । इदानीं यदि नाम कुत्रचिदिहातः(पां?)स्थानमासाद्यते तदहमधिकरमुखप्रक्षालनाचमनशुचितामाधाय देवी नमस्करोमीति संप्रधार्य तथा कुर्वन् कथञ्चित्तादृशे तमसि दृष्टायामर्द्धनष्टायामल्पविरसाम्भसि पुष्करिण्यां तद्धि सकलं विधाय त्वरितमेवान्तः प्रविष्टो जय जय त्रिभुवनजनाप्यायिनि कात्यायनीति भक्तिप्रयुक्तं वचः प्रस्तूय स्तुतवानस्मि।
स्वामिन्यार्ये भुजङ्गाभरणवलयिनि स्थूलशूलास्त्रदण्डे
चामुण्डे चण्डि चञ्चनिबिडनरशिरःस्रक्परीताङ्गि दुर्गे। देवि स्वर्नाथचूडामणिकिरणकणश्रेणिधौताग्रपाद
इन्छे वन्द्येऽभिनन्ये जननि जय जय श्रीमहाकालि दिव्ये ॥ कृतस्तुतिश्च क्षितितलमिलितालिकेन शिरसा प्रणम्य समुत्थितः स्थितान्यपथिकजनोपलम्भाय बहिर्मण्डपमगच्छम् । सोऽपि शून्य एव केवलमन्तः प्रतिष्ठितं क्षेत्रपालमालोक्य तस्यापि वाक्योपहारमकरवम् ।
धृत्यावेशप्रसक्तैज्वलदनलमुखोन्मुक्तपेत्कारपोरैः___ क्रूरैरुत्तालतालव्यतिकरमुखरीभूतभूषास्थिमालैः। क्रीडन्तं प्रेतरकैः कुणपभुवि महाजङ्गलग्रासलोभ
भ्राम्यद्भल्लूकभू(घू ?)कप्रकरपरिगतं क्षेत्रपालं नमामि ॥ ततश्च तत्रैव मुहूर्तमुपविष्टः स्वान्त एव भावितात्मा सविस्मयमहो! साधु, विधिना दुर्धरापदि महावनेऽत्र पातितो रत्नज्योतिरिदमुपस्थाप्य निहितोऽस्मि । कथमन्यथा समस्तालोकविजयिन्येवंविधे तमसि दृशोर्गोचरीभवत्येतदायतनम् । तथा च मन्ये नक्षत्रमात्रकेणाप्यालोकशुन्यं भविष्यतीति सश्चिन्त्य किल करोमि यावदुन्मेषे चक्षुषी तावदेकं झणिति मणिकिङ्किणीरणकारझङ्कारितादम्बरतलावतरन्तम्, अन्तिकेषु विस्फुरन्तीभिरात्मप्रभाभिरदभ्रेऽपि तमसि दूरादाविर्भवन्तं, चरणनूपुरा(रा ?)वधावितया गगनगङ्गामरालबालकश्रेण्येव धवलनरकरोटिमालया कृतोत्तरासङ्गं, खवाङ्गशिरःप्रणयिना कपालेन संसारफलाष्टी(श्ली)लकमिव दर्शयन्तं, भस्मनः प्रोडूलनेन सिताच्छधूलिधूसरितं निर्वाणदेशाध्वनीनमिवानुमीयमानं, सर्वतो गृहीतैर्भूषास्थिमणिभिराच्छोटिताशेषतारकधनं नभोनगरलुण्टाकमिवोपलक्ष्यमाणं, वामकरनिवेशितया शुक्लकपालशुक्त्या सम्पूरणाय गृहीतेन शशिबिम्बस्यार्द्धन प्रजाप