SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सोडलविरचिता तक्रमस्त्रिविक्रम इव, पृष्ठीकृतमहीतलः कूर्मराज इव, स्वेदाम्बुसंप्लवेन जलाकृतिरुण इव, त्वरापरिक्रमेण च प्रचलत्पदः पवमान इव, संवृत्तवानस्मि। एवमहमनेकगिरिकूटतटिनीमहाऽवटैरारोहावरोहविषमम्, अपारहरिचित्रकादिक्रूरतरसत्वसञ्चारेण प्राणप्रणाशदारुणम्, अनीरभूरुहान्तरालविस्तरेण च तृडातपक्लान्तिदुस्तरं पन्थानमतिक्रम्य गच्छन्नेकत्र परमेकहेलयैव निजप्रसरसंरुडाशेषदिग्भागभोगिनि, प्रखरहरिकरजकोटिकुहितानेककरिकरोटिकूटाद्रिमति, प्रचण्डद्वदहनधूमान्धकारपुञ्जकनिकुञ्जक(निबिड ?) निकुञ्जवति, प्र. भञ्जनप्रहतपक्वकपिकच्छुगुच्छकोचलितकेसरपरमाणुरथ्यारजस्विनि, प्रजरदजगरमुखोदरस्फुरत्फूक्तारभरसमीरिणि, हरिशरभप्रायवनजन्तुनि, खदिरशाकशाखोटप्रायतरुणि, दर्भसूचीप्रायतृणजातिनि, वल्मीकप्रायभूमिनि, भीषणतया प्रकर्षमापन्ने, दृषदसञ्चारवर्त्मनि महावने पतितोऽस्मि । तत्रैव चान्तर्गच्छतो मे तिग्मांशुरस्तं जगाम पश्चादोऽपि भूरितया वनाभोगस्य भग्नलवन्नोत्साहः क्व नाम निरापदि प्रदेशे गमयामि यामिनीम्; किमस्य तरोः स्कन्धमधिश्रयामि; किमिदमद्रिदरीमध्यमधिविशामि; किमत्र धनलताजालिनि गुल्मवलये वसामि; किमग्रे क्वचिदितोऽप्येवंरूपमपरमुत्कृष्टं वसतिस्थानमासादयिष्यामीति वितर्कपरतन्त्रेण चेतसा शून्य इव प्रसर्पन सहसैव परमस्तरविबन्धनोत्सर्गविगलितैरिव ध्वान्तपटलैराच्छादितोऽस्मि । तथैव च यावदन्धकारेऽपि लब्धाश्रयपरित्यागानुतापात्कृतयथोपस्थितावस्थितिविनिश्चयो व्रजामि तावत्सुदूरमतिघनान्धतमसगर्भे मुरद्विषो वक्षसि कौस्तुभशालाकामिव प्रदीपभ्रान्तिमुत्पादयन्तीमुल्लसन्ती च कुतश्चिक्तान्तिकलिकामपश्यम् । दर्शनेन च तस्याः ससंशयमम्हे ! किमिदमेवमुद्योतते; किमेष कचिदाश्रये वितीर्णो दीपः प्रज्वलति; उत स्फुरन्तीभूतदहनार्चिषः शिखेयम्; अथवा निधानं ज्योतिषां वह्निः; आहोस्विद्दिव्यौषधीप्रभेदः कश्चन । भवतु वा किमपि । अस्तु तावदनुसरामि परतस्तु दृष्टे सत्यस्मिन्नुचितमाचरिष्यामीति निश्चित्य तथाप्रवृत्तः कियत्यापि कालकलया तमुद्देशमासादितो झगित्यग्रे तयैव कान्तिशिखया द्योतिताभ्यन्तरमभित्तिकेन च बहिर्मण्डपेन मण्डिताङ्गणमुग्रतमस्य तमसः श्यामिकया कजलकूटायमानमत्यन्तजीर्णतया च खण्डस्फुटितमायतनमद्राक्षम् । सहर्षवेगं च गत्वा समीपमन्तः प्रहितेन चक्षुषा विलोक्य भगवती दुर्गामन्तिके च त्रुटितेष्टकायां भित्तावतिचिरविपन्नपन्नगस्यास्थिशेषे शिरसि वि
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy