________________
उदयसुन्दरी कथा।
५९ नाचरति । यतोऽहं तथा शश्वद्वहता प्रयाणकेन स्वमादौ देशमतिक्रामन् यस्मिन्नेव नगरे ग्रामे वा यस्यैव गृहे प्रविशामि तेनैव द्यूतकारोऽयमस्मद्हात्किमा ज्यपहृत्य यास्यतीति सुप्रसिद्धत्वान्निकामशङ्कित्तेन नेत्रनिक्षिप्तो भोजयित्वा मेष्यमाणो जनेन दूरादवलक्षितत्वात्समानविद्यैरालिङ्गयमानो निमन्त्र्यमाणश्च द्यूतकारैरालोक्य च द्यूतमानन्देन विस्मरामि प्रस्तुतं प्रयोजनम् । उपरि तस्यैव गत्वा भवामि । तत्र च जयता कितवलोकेन दीयमानामनेकशो रेखामासाद्य तेनैव च रमणेन स्वयमुपविश्य खेलामिन चैतत्किमपि चेतयामि यत्किल लङ्कां प्रति प्रस्थितः पथि स्थितश्चाहं ( हमिति ?)। पश्चानिष्किञ्चनीभूतश्च किमधुना खेलनाय सारयामीति चिन्तया कार्य स्मरामि । तथैवचात्मानमात्मनैवोपहस्य ततोऽपहस्य (मृत्य ?) निस्म( स्स ?) रामि । इत्येवममुना क्रमेण गमितबहुवासरया कालसम्पदा प्रथीयसीमुत्तरदक्षिणयोरन्योन्यमवनिमण्डा लानुभागकलहादुङ्गमि(भिग ?)तयोर्दिशोर्निवारयितुमन्तरप्रवेशितां भुजलतामिवमहोदधेः,अनिलतरलितोर्मिशिखरशीकरप्रकरैर्मदावस्थामिव वरुणकुञ्जरस्य, तीरविरचितानल्पतापसकुटीरकैर्निवासनगरीमिव धर्मस्य, प्रचारवीथीमिव निर्वाणनगरस्य, महासरितमत्रभवतीमवाप्तोऽस्मि रेवेत्यपरनामवती नर्मदाम् ।
या रेवेति निषन्तयातु(मिषात्पुनाति ?) विशदापारप्रवाहश्रिया
साक्षात्सा क्षितिमाजगाम गगनादुत्तीर्य मन्दाकिनी । कुत्रान्यत्र समीरसङ्गमसमुड्डीनोबिन्दुव्रज
व्याजात्तीरशिलातलेषु मिलितस्तारागणो दृश्यते ॥ या शाश्वतपदा देवी तरङ्गसरिकास्रजं ।
बिभर्ति वृत्तकल्पान्तसङ्ख्या रेखावलीमिव ॥ ततश्च सरभसमभिनन्द्य वन्दितजलोऽहमुत्तीर्य सुखावतारेण वर्मनातामतिमनोहरां सरितमेनया मेकलकन्यया पूरितं प्रविष्टोऽस्मि दक्षिणं देशम् । इतःपाथोधिपरिखावती लदैव(गन्तुं) प(व?)रमित्युदञ्चितोत्साहमुदग्रवेगं च प्रचलितस्तस्मात् ।
अथ क्रमेण सन्त्यजन् समदशबरीकटाक्षकल्ली(ल्लोल)कदम्बदुस्त्यजानि भिल्लपल्लीवनानि, लड्डयन्नुद्दामपामरकुटुम्बिनीकुचशैलदुर्लथान ग्रामान, अतिक्रामन्नपारपौराङ्गनालावण्यजलदुर्गदुरतिक्रमाणि नगराणि, अतिगच्छन्नतुच्छतरुसुन्दरोद्यानवलयान्धकारदुरतिगम्यानि मलयमण्डलानि, निस्तरन्नसमशीतातपाचसंवरणायासदुस्सहं क्लेशम्, अविश्रान्तगमनो भानुरिव, भुवनलवन्नोत्खा