________________
उदयसुन्दरी कथा |
अथास्तु वा किमनेन तावदन्यतो विभावयामि, तत्किलान्यत्किमत्रभूवलये सुभटभुजपञ्जरोपसाध्यनये । साधु स्मृतम् अस्त्येव सकलसुवर्णमयागार - प्राकारपरिकरा रक्षसां निवासनगरी लङ्का । सा च पूर्व स्त्रीहृदयेन रामेणाऽपि साधिता, किं पुनरशेषभुवनैकवीरस्य न मे साध्या भविष्यति । अतस्तस्यां गत्वा हठादाक्रम्य गृहीतमखिलमामूलतः सुवर्णशिलासंभारं विभीषणस्य च कुबेरकालात्सञ्चितं कोशजातमारोप्य वलयोपनतानां स्कन्धेषु रक्षसामिहानीयते । न हि यावदित्थं पूरयामि मनसो द्यूतकेलिषु व्यसनमित्येवं चेतसि विनिश्चित्य दिगन्तयात्रोचितं मुहूर्त्तमनालोचयन्नविमृशन्नेव च द्यूतव्यसनलङ्घितः परिणतिं कार्यस्य दूराध्वलङ्घनोपयोगिनीं प्रक्रियामाधाय मध्याहादुपरि षट्टर्णो भिद्यते मन्त्र इति वञ्चयित्वा समस्तमात्मनोऽनुजीविवर्ग निर्गतोऽहमेकाकी निकेतनात् ।
ततश्च गृहप्रतोलीद्वारेण निर्गच्छन्नये ! नियतमेवंवृताध्वगाकार परिकर - मालोक्य मा कोऽपि मां देशान्तरोच्चलितमम्बा पिता बन्धुजनो वा ज्ञास्यति, ज्ञात्वा च हृदयवात्सल्येन मा कोऽपि स्खलिष्यति, मा कोऽपि प्रेम्णा पृष्ठे लगिष्यति तद्यथा न खल्वेवंविधोऽयमनेकविधोऽन्तरायः सम्पद्यते तथा निभृतमन्यैरज्ञायमानस्त्यजामि जनपदानुषङ्गिणीं भुवमिति विचिन्त्य तथैवालक्षितक्रमेण झगिति निर्गत्य पुरीपरिसरादनार्त्तेन चेतसा दक्षिणां ककुभमधिकृत्य प्रवृत्तोऽस्मि । गन्तुमनां च (नाश्च ? ) तमुल्लङ्घयन् प्रथमप्रवासरभसाद्भूयसागतिजवेन प्रस्तुतं पन्थानमस्तंगते भगवति सहस्रभानौ योजनशक्तिकेति नाम्ना प्रसिद्धं ग्राममासादितवानस्मि ।
५७
तत्र च प्रवेश एव दृक्पथमुपागते ग्रामसरसि निर्वर्त्त्य सायन्तनं सन्ध्याविधिमनुडुरेण तमसा किमप्यस्फुटतामुपेतवत्यालोके लोकैरनवलक्ष्यमाणः पुरा परिचितस्य पुराणवयसो मथुरान्तर्विख्यातस्य सदैव तद्रामवासिनः पिप्पलकद्यूतकारस्य मन्दिरमापृच्छ्य प्राविशम् । तेनाप्यभ्यागत इति राजसूनुरिति द्यूतमितमिति च ससंरम्भमभ्युत्थानपूर्वं कृतादरगौरवेण यथोचितैः स्वागत प्रश्नासनदानादिभिरशेषतोऽपि सत्कारैः प्रीणितोऽस्मि निर्वर्त्तितपूर्व
करणीयस्य च शय्यागतस्य ममान्तिके प्रेम्णा समुपविश्य " कुमार ! सुदूरयात्रिकेणामुना स्वरूपेण क्व नाम गन्ताऽसि, कतमं च तक्तिल तादृशमनन्यगोचरप्रयोजनं येनैवमेकाकी चलितवानसी "त्युक्तवान् । मयाप्यये मदीयमिदं सुदृरदेशानुसर्पणरहस्यमवेत्य मां कदाचिदिह नगरीनेदीयसि
८ उदयस०