SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५४ सोडलविरचिता अत्र तु प्रतीहारहुकृतेन मूकतां गतेऽपि परिजने समन्ताहुर्निवारैरेभिरासन्नैरधिमुकुरमञ्जरीकुसुममलिझङ्कारैः, अधिफलमुच्छृङ्खलशुकादिशकुनिकलकलैः, अधिचूतशिखरमुल्लपत्पिककुटुम्बकूजितैः, अधितमालषण्डमुन्नादमयूरकेकारवैः, अधिदीर्घिकालिनमतिकलमरालकोलाहलैः, इतस्ततो विकृष्यमाणं मनो नावधानसखं भवितुमीश्वरम् ” इति प्रोक्तो महीपतिरेवमेतदिति सत्वरमुद्स्थात् । ततस्तदाकर्णनकौतुकत्वराभरेण षट्सप्तपदेऽपि वर्त्मनि स तत्र गव्यूतिशतायिते कथंकथञ्चिदुर्वीपतिराप मण्डपम् । विमलमणिमहिष्ठे मण्डपे तत्र साई प्रणयिभिरुपविष्टश्चिन्तयन्नेतदेवम् । भवतु तदिह यन्मे वाञ्छितं सूचयन्ती स्फुरति हरनियोगादस्य सारस्वतश्रीः ॥ इति कायस्थकविसोडलविरचितायामुदयसुन्दरीकथायां चित्रसन्दर्शनो नाम सारस्वतश्रीपदाह्व स्तृतीय उच्छासकः॥ ॥ चतुर्थोच्छासकः॥ अथ तथोपविश्य सान्तःप्रतोषमवहितीभूते भूभृति साद्भुतकथाकर्णनरसोत्सुकेषु च तत्परमुपेतेषु प्रोक्ते हृद्यवेदिना वसन्तशीलेन स खलु शुकशरीरनिर्मुक्तो महात्मा कथयितुमारेभे । “श्रीमन् ! निशम्यताम् । अस्ति भुवनेषु प्रसिद्धा विविधसौधसुधैकवला कीर्तिरिव मर्त्यलोकस्य, प्रोन्नतायतनध्वजविराजिनी जयश्रीरिव जम्बूद्वीपस्य, विमलहर्म्यनिर्माणमणिमयी विभूतिरिव भारतवर्षस्य, प्रभूतारामरमणीया वृत्तिरिवोत्तरापथस्य, भूचक्रवलयिनो महार्णवस्य दृष्टान्तेनेव गभीरजलदुर्गमेण परिखावलयेन विराजमानपरिसरा, शिखरसम्मिलितैः स्खलितरविरथतुरगतुण्डडिण्डीरपिण्डैरिव चन्द्रकान्तकपिशीर्षकैदन्तुरेण मरकतशिलाप्राकारेण परिगतोपान्तभूमिः,अनेकशः श्रिया गर्भवती. भिरिव महोदराभिश्चित्रशालिकाभिरलङ्कतान्तःपरिकरा, प्रथितपरिशुद्धाचरणचारित्रवता जनेन सर्वतो वस(ह?)न्ती त्रैलोक्यभूषणम् ,अखिललोकोपकी. य॑मानाभिरामनामवती मथुरा नाम नगरी। ____यस्यामुपेन्द्रविदलितस्य कंसासुरस्य सर्वतो रुदतीनामन्तःपुरपुरन्धिकाणामनणकजलकलापकालीकतैरश्रवारिभिरापूरितेव द्रावितेन्द्रनीलसप्रभं प्रवा
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy