________________
५२
सोडलविरचिता पश्चालसिंहस्य । तदा हि दिग्जयप्रवृत्तः पञ्चालसिंहः स्थलपथपरिमाणं धरणिपीठमुपसाध्य जलनिवेशदुर्गमाणि द्वीपान्तराणि प्रसाधयितुमम्भोऽध्वना पोतयानैः विचरितुमारब्धवान् । तथा पर्यटश्च कदाचिदेकत्र क्वचन विगलदुपकूलकेसरतरुकुसुमसुरभितोदन्वदम्भसा धौतसितसैकतायां रमणीये खेचरविश्रमसद्मन्यन्तरद्वीपकेऽवतीर्य निर्वय॑ च पौर्वाह्निकं कर्म क्षणं विशश्राम । ततश्च लब्धाऽनुकूलपवनतया त्वर्यमाणो निर्यामकैः सत्वरमुत्थाय पोतमारूढवान् । तत्रैष त्वरया व्याकुलितहृदयेन देवपूजोपकरणाधिकारिणा द्विजेन विस्मृतः। क्षणेन च योजनशतप्रमाणमध्वानमुल्लमय वहता पोतेन तत्किल स्थानमुज्ज्ञित(मिद)मितिकोऽवैति पदे पदे तादृशानेकदृश्यमानान्तरद्वीपसहस्रधारिणि पयोनिधौ येन पुनर्निवर्त्य गृह्येत । इत्यभिधाय तस्थौ ।
राजा तु भवत्वनेन तावदन्यदिह किमास्त इति पश्यन्नये सन्धानरेखया मेलित इवापरोऽयमुपलक्ष्यते पट इति कुतूहलात्सर्वमुदल्य सहसैव पुरस्तादाक्षेपशिल्परचनामिव पितामहस्य, चित्रशालिकारम्भचर्चामिव रतेः, परिज्ञानत(प?)टिकामिव मनोभवाबस्य, रणव्यूहकल्पनामिव शृङ्गारसुभटस्य, त्रिभुवनाङ्गनारूपमपहृत्य नियमितनिश्वसितशब्दगुप्तां तस्करीमिवावृत्यपटमवस्थिताम्, उद्यतहरललाटलोचनानलभयपलायितामसमशरशरीरश्रियमिव निभृतीभूय संलीनां, शक्रशापसंपातितामुर्वशीमिव चित्रवपुषा परिणतां, वर्तितनवनाभिम्मण्डलाभोगभूमिमिवसौभाग्यक्षेत्रपालस्य, लिखितस्तनचक्रवती वशीकरणविद्यामिव त्रिभुवनस्य, भरितकपोलपत्रस्वस्तिकामभिषेकवेदिकामिव यौवनावनीश्वरस्य, प्रदर्शितरूपसारां केवलिकामिव युवजनमनोविकारज्ञानस्य, पक्ष्मसम्पुटास्पन्दनैरनिमिषविलोचनां देवीमिव विभाव्यमानां, निश्चलाङ्गलतावयवभावेन मदनदाहमूछितां रतिमिवानुमीयमानाम् , अनालापतया तपश्चरणाचरितमौनां गौरीमिव लक्ष्यमाणां, सितप्रभासंभारशालिनि पटे लक्ष्मी. मिव क्षीरोदवारिणि,उदन्वतीमिव जाह्नवीपुलिने, सावित्रीमिव द्रुहिणहंसपक्षासने, सरस्वतीमिव आसनसरोजपत्रे, रोहिणीमिव हिमांशुवक्षसि, महीमिव शेषफणफलके, केशवीमिव पाभिषेकपीठे निविष्टां, रतिसङ्गनिःसहानङ्गचापच्छटामिव लिखितां, प्रतिपदिन्दुमूर्तिमिव रेखामयीं, परमेष्ठिसृष्टिविद्यामिव प्रपञ्चितानेकवर्णा, सूत्रसंहतिमिवाधिष्ठितपटाम् , अभिरामदर्शनवती चित्रगतां युवतिमद्राक्षीत्।