________________
उदयसुन्दरी कथा। . रलक्ष्मीकमिव निजाश्रयप्रभावादाम्रद्रुमं कुर्वन्तं, शिरसि विस्फुरता चूडामणेज्योतिषा निधानमिव गुणानां, अस्वल्परूपमप्रमितकान्तिकमनीयमनन्तलावण्यललितं, मध्यतनस्य जगतःप्रभुत्वे एकमपि परिगतमशेषराजन्यलक्ष्मीभिः, सर्वनरलोकजुषामुपरिवर्त्तमानमपि तले एकातपत्रस्य(विराजमानम्?) नवखण्डभूमण्डलाधिराज्यसिंहासने निविष्टमपि लीलासरस्तटे समुपविष्टं राजानमद्राक्षीत् ।
दृष्ट्वा च सप्रत्यभिज्ञमिवान्तरुल्लसता सम्मदेन सपदि प्रहसितेक्षणकपोलपालिः सरभसमतिसत्वरैः पदैरागत्य भुवं प्रतीहारस्य सह तेन च किश्चिदाभाषमाणः क्षणं तस्थौ । स तत्र तिष्ठन् ज्ञापितानन्तरमवनिपाज्ञानुवर्तनपरेण प्रतीहारेण सगौरवाह्वानसन्मानितः प्रविश्य कृतोचितप्रणामः प्रतीहारदर्शितं यथार्हमासनं भेजे । उपविश्य च सप्रतोषमात्मनः कृत्या राजानमुपश्लोकयाञ्चकार।
ये दानोडरगन्धसिन्धुरघटाकुम्भान्भृशं भिन्दतो
लग्नाः संयति वर्तुलोज्वलरुचो राजन् ! कृपाणे तव । लोकस्तान्प्रतिवक्ति मौक्तिकमणीन्मिथ्यैव सत्यं पुन
स्तेधाराजलमजदूर्जितरिपुवातोल्लसदुद्धदाः॥ अपि चत्वत्खगाघातवेगोचलितमुरुमणिश्रेणिभास्वत्किरीट
त्विड्गाढोपप्रदीपं गतमहितशिरःसङ्गरे दूरमूर्ध्वम् । तस्यैवाशु प्रवृत्ते त्रिदशवनितया साईमृद्धे विवाहे __ यागान्ति(?)स्तम्भशोभामनुभवति नभोबर्हि राजन् ! मुहूर्त्तम् ॥
अनन्तरमादाय वामकरतलाद्दक्षिणपाणिना तत्र वस्तुनि व्यक्तीकृतं कुण्डलितमेकं पटमग्रतो भूत्वा देव ! जगत्रयस्वामिना सुरेन्द्रेणाप्यनासाद्यमिदं मेलकस्थानमशेषजननयनपरिषदां वस्तु । पश्यतु पशुपतेः प्रसादसर्वस्वहरो देव इति राज्ञः समर्पयाश्चक्रे । राजाऽप्यन्तरएव वसन्तशीलेनाच्छिद्य समर्पितमादाय किमेतदिति च प्रसार्य रभसा निवेशितोदारदृष्टिरई एव चित्रप्रपश्चितामात्मनो मूर्तिमपश्यत् । उपजातविस्मयश्च हंहो ! केन किल कथमहमिहालिखित इति नेदीयसां कौतुकमुपजनयति जनेश्वरे मिलितात्महृदयत्वादतिहर्षेण विकसिताक्षिरध्यक्षः सकलसैन्यानां सिङ्कलाङ्गदो जगाद । देव ! देवपूजाक्षणे यत्र गतां युष्मन्मूर्तिमनुध्यायति स खल्वेष ध्यानपटः सेनापतेः