________________
उदयसुन्दरी कथा ।
४५ रौचित्येन च प्रस्थाप्यमानैः श्वापदगणैर्विरलतां गते मृगवने गगनशिरोऽघिरूढमालोक्य चण्डरोचिषमुचितमवसरे विजयवर्धनः सविनयमुवाच-“देव ! कृतमतिकुतूहलेन वृत्तोऽयमवसरः पापर्द्धः यदेते समुच्छिन्नसकलसत्वं काननमवेत्य वामकरकलितलम्बमानबाणासना निवर्तन्ते धनुर्धरा, बलाद्रयनियन्त्रणस्तिमितवरवाजिनो मिलन्त्यन्योऽन्यमश्ववाराः, हेलानिवेशितदृष्टयः शून्यमवलोकयन्ति दिग्वीक्षजनाः, अहमहमिकया सश्वसनेन तरलितललदलघुजिह्वलता निरुत्साहसौम्यमाकारं वहन्ति च श्वानः, किञ्च तेजसा सधर्मा देवस्य भगवानुष्णकिरणोऽपि गगनगर्भमागत्य तीव्रशरशिखरखण्डितमृगामिषस्य पाकार्थमग्निमिव प्रगुणयन्नुदग्रदाहमातपं चकार । तथाहिपूत्कारेण तरङ्गितं पदतलैरुद्गर्तमुत्प्रेरितं
जडोरुक्रमणैर्दिभागितमुरोभित्या च वारि क्रमात् । घर्तिः परिशीलयन्नधिविशत्येष स्रवन्ती हृदं
भृङ्गैस्तप्तमदाहतैरविधुरैरुन्मुक्तगण्डो द्विपः ॥ इतश्चयदीशुक्लान्तः स्फुरदरणपुष्पोदरधिया
प्रविष्टो नामातः (सान्तः?)कणितमलिडिम्भः प्रकुरुते । कपिः स्थित्वा स्थित्वा तदिदमनुशृण्वन्विचकितो
धुनोत्यास्यं रौति प्रचलति चलत्युल्ललति च ॥ किश्चस्वेदाम्भश्चछुरितं कपोलफलकं नेत्रे मनामीलिते
वैधुर्यालसनिस्सहं वपुरपच्छायं च वक्राम्बुजम् । सद्यः सम्मिलितोज्झदीधितिकरस्पर्शादसौ बिभ्रती
__ भावेनेव मनोभवस्य शबरी संवर्गिता लज्जते ॥ अपि च
सर्वतो विजृम्भमाणेनामुना मध्याह्नतरणेरातपेन शिशिरपत्रपटलान्तरनिविशमानशकुनिचरणचूर्णिताविरलकिसलयरसेन प्लाविताः प्रस्विन्ना इव द्रुमाः, मध्याह्नपवनदोलितानामतिचला प्रकामतप्तोर्वीतलगता वेल्लतीव शाखिनां छाया, करिकुलविगाहनोड्डीनषट्पदपटलेनोपरिवृत्तेन नीलातपत्रेणेव तरुणोष्णकर्थिता निर्वाप्यते कमलकाननश्रीः, उत्तप्तपुलिन्दमजनोन्मिषितगुरुतरङ्ग