SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४४ सोडलविरचिता ____ ततश्च लुब्धकारब्धमधुरगीतरसाहियमाणहरिणः पुरःप्रदर्शितोक्षनिश्वासानीयमानशम्बरो दीपहरिणीविलोचनाकृष्यमाणकृष्णसारः समुच्छ्रितरूपद्र्शनोन्मुच्यमानसारमेयसंहतिरन्तःप्रतिष्ठशशकवीच्छ(क्ष?)कजनावेष्ट्यमानकण्ठी(रवः)त(र)लसुरसनाकरालकौलेयकारभ्यमाणपोत्रियूथपः प्रसरश्ववारमण्डलीपिण्ड्यमानश्वापदगणः प्रगुणितशरपातघावितधनुर्धरनिरुध्यमाननिश्वसन्महिषयूथः सर्वथाऽप्यश्रुतपूर्वोवनदेवताभिरदृष्टपूर्वःश्वापददैननुभूतपूर्वोवनेन बभूव महानद्भुतसमारम्भो मृगयासंरम्भः । अत्रान्तरेचापेनिवेशितशरं पुरतो नृपेन्द्रमालोक्य सृक्कविवरेषु वराहकानाम् । दंष्ट्रामिषेण दृढपात(पत्रि?)निपातभीतान्यस्थीनि निष्क्रमितुमाकुलमारभन्त॥ अपि च शशकस्य क्षणं मूर्टि लग्नं काण्डमशोभत । तत्कालरिष्टसंभूतं विषाणमिव मृत्यवे ॥ अन्यच्च उड्डीयमानः सहसैव दूरात्रिकोटितीव्रण शिलीमुखेन । विद्धोऽन्तरालप्रणयी मयूरो मुहूर्तमन्धासुरतां प्रपेदे ॥ अपरं च । शाखामृगेण चपलप्रकृतिप्रसिद्धमन्तेऽपि तत्सहजमाविरकारि शीलम् । यः कीलितोऽपि विशिखेन झगित्यगच्छदुर्वीरुहा वमथास्य गुहां यमस्य ॥ किश्वविमुच्य नादं निशितेषुविद्धो राजा मृगाणां पतितस्तथा वा(थैव?) । दिक्षु प्रतिध्वानमिषाद्भवन्नकालगर्जाडमरागुतानि ॥ सर्वतश्च महिषाः काननस्याधिदेव्या इव निवेदिताः। पेतुः क्षतास्रधारूथ(रोत?) रक्तपुष्पावमालिताः॥ अथैवमनुबध्नता पापर्द्धिविस्तरेण प्रथमरवपलायितैः कैश्चिद्दिगन्तमाश्रितैाघातघोषोन्मिषितकर्णैः कैश्चिइनान्तरमुपगतैरुडीयमानघनषाणवीक्षणशतिः कैश्चिद्विरिगुहागर्भमभिलीनैदेरशरशिथिलघातसंवेदितैः कैश्चन गहरान्तस्तिरोभूतैरन्यैश्च बहुविधमहारापहृतजीवितैः पतितमृगसम्बरवराहादि. रूपैः कैश्चित्सारमेयकुलैरालुप्यमानैः पापर्द्धिकैरुत्क्षिप्तमाणैः प्रसादेन दीयमानै
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy