________________
उदयसुन्दरी कथा। हेतुरप्यमुष्याः स्फुरितनिशितासिकणिशनिर्मितनररुण्डताण्डवोडामरसमीकच्छेदः प्रवेषिवंशस्य । तदेतत्किं न कृतं देवेन । भूवलयमधुपटले राज्यसुखरसाय कृत एवायमुच्छेदः क्षुद्राणाम्, अपनीता हि विलसदसिदण्डदलितवीरकवचकालायसोल्लसितविपुलविस्फुलिङ्गशिखिस्वेदेन भुजयोरुद्भटाः कदनकेलिकण्डूतयः, क्षुरप्रमुखविखण्डितेभदन्तमुसलैरुन्मूलितविरोधिवंशाङ्करैरिव छादिताः सङ्गामभूमयः, निशितनिस्त्रिंशधारोत्तारितारिशिरःशङ्खवलयैः प्रसादिता वीरलक्ष्मीः, असिदण्डपीडितैरहितकुलैरुद्वासिता वसुमती, वैधव्यविधुरितारिसीमन्तिनीनेत्रसलिलधाराभिः खेलितो मधूत्सवः, विपाटितविपक्षवंशादाकृष्य यशोमुक्ताफलमाभरणीकृतं त्रिभुवनश्रियः । तत्किल किमब्रोच्यते।
कुर्वन्नुद्गतमेकदैव तरणिस्तोमं प्रतापक्रमैः
शत्रुस्त्रीनयनाश्रुभिर्विरचयन्सप्तार्णवैकाप्लवम् । नृत्यत्येष घनारवेण यशसा मुक्ताहासः समि
संहारेषु तवासिरत्र नृशिरःस्रग्भूषणो भैरवः ॥ अपि च
देव क्षत्रियपुङ्गव ! प्रहरतः सङ्ख्येष्वसङ्ख्यं मद्. प्रस्यन्दप्रसरान्धसिन्धुरशिरःस्कन्धं कृपाणस्य ते । धारासङ्गतमौक्तिकद्युतिपरीवेषच्छलादन्तिके
दत्तः काण्डपटो झटित्यभिमृतारातिश्रियः सङ्गमे ॥ त्वदभिभयपलायनादरण्येषु शृणु श्रीमतामीश ! शात्रवीमवस्थाम् तथाहि ।
वर्षास्वद्य कुटीकृतेऽयमुचिते देवि ! प्रदेशे मया
नास्मिन्नेति वनापगाभर इति ब्रूते तवारिः प्रियाम् । यावत्तावदरण्यवासविषयावस्थोग्रदुःखस्पृशः
सा तस्याः स्रवदीक्षणाश्रुपयसामुन्मथ्य नीताऽऽप्लवैः॥ किंबहुना
स्वामिन्नवेक्ष्य निखिलप्रतिपक्षभूभृ- दुन्मूलनकविषमानलमुद्यतं त्वाम् । वंशो नतः सपदि सर्वनरेश्वराणां ।
तेनाङ्गसन्धिषु न स कचनापि भग्नः॥
६ उदयट०