________________
३५
उदयसुन्दरी कथा । तत्खलु विमुश्च मां धीमन्नव मां वाचा च शुद्धोऽसि चेन्मा विघटय विहङ्गमकुटुम्बात् । मा दूरीकुरु निकुञ्जतरुकोटरकुटीरवासात् । मा वियोजय यदृच्छारामफलरसोपभोगात् । मा विश्लेषय विविधवनसरणिसञ्चारसौख्यात् । मा समुत्सारय नभस्तलोत्पतनविलासविभवादनाथमात पतत्रिमात्रमित्युपरोधबन्धुरमभिधाय व्यरंसीत् । अनन्तरमुत्पन्नविकल्पोऽहं . अहो ! कोऽप्यसावित्थं प्रगल्भः शुकविशेष इति न जाने । किन्तु यथाऽहममुना स्वार्थमनुसन्धानेन सप्रबोधसंरम्भमभिहितस्तथाऽहमपि करोमि यदि हृदयं दयार्द्र मनसा च प्रवृत्तिप्रश्नगर्भेण गिरां विस्तरेणोत्तरं कल्पयामि । ततोऽयमुक्तिप्रकारचतुरस्तथा कथञ्चिदालापचर्चा विपञ्चयिष्यति येन मे झगिति भविष्यत्येव मोक्तव्यस्तदस्तु स्वामिनः समर्पणीयोऽयमित्यादावेव सूत्रितं प्रयोजनमनाशयेन यत्किश्चिदुक्त्वा गृहीत्वा च याम्येनमन्वयादिस्वरूपमेतस्य स्वामिनैव पृच्छ्यमानमवगमिष्यामीति संप्रधार्य तथा प्रत्युत्तराभासमात्रकेण तमनुव] तूष्णीमतिष्ठम् । अथ तथैव मे जाग्रत एव शुकवचोऽवत्रासस्खलिताच्छलयितुं हालिकानुपृष्ठलग्ना प्रकीर्णतिमिरकेशा पिशाचीव गता सा नाम यामिनी । प्रविष्टश्च कर्णयोर्निशोपान्तमुक्तस्य चरितुमायातवतो द्विपीकदम्बकस्य कण्ठावलम्बितो नाम नवग्रहीभूतः शुकोऽयमादाय गम्यतामित्यदृष्टोपदेश इव कणत्काष्ठघण्टावलीनानारवः । तमाकर्ण्य नन्वसावेव समयः प्रयातुमिति प्रतोषसत्वरमुत्थाय गृहीत्वा च तं शुकं निर्गतोऽस्मि तस्मादागतश्च सकलेनाहा तदेव नगरम् । नगरप्रवेशे च मदन्वेषणविमूढस्य झटित्युतदर्शनप्रहर्षेणागत्य मिलितस्य परिजनस्य हस्ते समर्प्य पञ्जरकमाख्यात. वृत्तान्तः सद्मनि प्राविशम् । तत्र च स्वामिनो दर्शयितुमाश्चर्यकरं शकुन्तमुत्सुकोऽहमन्यस्मिन्मणिफलकपञ्जरे कृत्वा तमतिवाह्य तां निशामायातवान् । अवाप्तोऽस्मि चाद्य न खल्विदमीदृशं विहङ्गरत्नमवनिमण्डलाभरणस्य राज्ञो निधानीकृतं शोभते इति भवनमगच्छन्नेवात्र तमादाय समागतस्तदेष बहिरानीतो दारकस्य करे तिष्ठतीति विज्ञप्ते देवस्य मनः प्रमाणमित्युक्त्वा व्यरमत् । राजा च सविस्मयोत्सेकमुत्सुकेन मनसा ननु त्वरितमानीयतां, दृश्यतामसौ शकुन्त इत्युक्तवान् । उक्ते च भूभृता कौतुकतरङ्गितं मनः प्रभोराकलय्य वसन्तशीलः स्वयमुत्थाय जवादानीतमग्रतो रत्नपञ्जरमधिष्ठितं शुकममुञ्चत् । अथाऽसौ सरभसमुन्नमितकन्धरः प्रसन्नया दृशा निरूप्य