________________
उदयसुन्दरी कथा |
त्यमुपदर्शयन्नुप कोण वर्तिनीं प्रस्तरपलालपिण्डितामाकृष्य च स्थालीमाग्रहाद्वासितान्निकया करम्बितेन यवनलकमहोदनेन तत्समयेन भृष्टेन चोष्णेन कालिङ्गशकलिकाशाकेन कृतगौरवमातिथ्यमकरोत् । दिनबुभुक्षितश्चाहं तडि गोपालहालिकीयं भोज्यममृतमयाहारनिर्विशिष्टमिवोपभुज्य मृडुनि नवकलमपलालतल्पे तेनोक्तः स्थितिमकार्षम् । पामरोऽपि तथैव स्वयमुपभुज्य मदासन्नविरचितान्यसंस्तरे सलीलमुपविष्टः शुककृते कर्तुं पञ्जरकमारेभे । मया हि लब्धावसरेण सानुबन्धमसावभिधातुमारब्धो यथा । भोः ! चातुर्षुरिक ! कमभिनिवससि ग्रामम् ?, किमभिधानोऽसि ?, काऽसौ कथं च भवता शुको धृतः सङ्गृहीतच किमर्थं ?, किश्च श्रीमतामुपकरणेनामुना किं करिष्यति भवान् ? | यदि न कुप्यसि कुलप्रधान ! ततो भणाम्युपकारेण महता प्रयच्छ मे शुकमिमं राज्ञो दर्शयामि । तेन च कृत्वा तवावश्यमनल्पं दापयामि प्रसादं कारयामि च भवन्तमखिलस्यापि मान्यमिति मद्रचो निशम्य पञ्जरकसृष्टौ निविष्टदृष्टिरपश्यन्नेव मां पामरः प्रत्युवाच ।
३३
श्रूयतामिहास्ति परतो धान्यसारनामा ग्रामः । तस्मिन्नधिवसति गोपतिर्नाम कुटुम्बिकस्तस्याहमात्मज इव संवरको नाम हालिकः कलमशालिमलनाय जनितमहाखलोऽत्र क्षेत्रे वसामि । चारिग्रहणाय चाद्य नातिदूरमितोऽईविलून शालिमतः केदारस्य तीरं गतेन मया शालिकणिशस्योपरि निविष्टो दृष्टः शुकोऽयमालोक्य च सहर्षमहो साधु चिरादृष्टोऽयमिति यष्टिकाग्रयोगिन्यायासिकया परुषतुषपुटकोडात्तण्डुलविकर्षणासक्तिपरतन्त्रो झटित्यसौ संवृत्य स्वीकृतः । न चात्र त्वयाऽनुबन्धो विधेयः । मम हि प्राणाधिकाऽस्ति कुलशीलसौरूप्यवती कान्ता । सा च संप्रत्यमितोपयाचितशतैः प्रथमगर्भेणान्तर्वत्नी जाता । गता चात्मनः कुलगृहे प्रसवितुमपरं मेखलिकानामग्रामम् । तस्याः शुकामिषोत्पन्नदोहदायाः कृते सङ्गृहीतः शुकोऽयम् । अतो मे प्रेयसा कललेणैव विभूतिमतः किमनेन त्रैलोक्यराज्यमपि तृणकल्पमेवैतत्तदलमनुप्रार्थनयेत्यभिधाय निष्पाद्य च तं तृणलतामयं पञ्जरकं विधाय च तदन्तःप्रवेशेन सुस्थितं कीरमुत्पन्नतोषः कृतकृत्य इव शयनसन्निवेशेन स्थितवान् । तथा स्थिते च तस्मिन्नुद्भूतभूरिचिन्तोऽहमाः ! कमुपायमिदानीमासूत्रयामि किमन्यमर्थनोपरोधविशेषमुपदर्शयामि, किमितो हठादुल्लड्डन्य च गृह्णामि आहोस्विदकथयन्नेवास्य सुतस्यापहृत्य यामीत्यादि नितान्तमुत्ताम्यता चित्तेन चिन्तयन्
५ उदयसु०