SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सोड्डलविरचिता मन्थरप्रचारमुचलितस्तस्यैव रोधसः शिरसि प्रवृत्तं पन्थानमनुसृत्य वामतो नातिदरवर्तिन्येकत्र नवदलविनीलयवनकपट्टिकावलयमण्डलिते विल्य पुञ्जितव्रीहिणि क्षेत्रखलके झटिति दृष्टमुत्कृष्टं कुटीरमपत्वरेण चेतसा सहर्षमाश्रितोऽस्मि । तच्चान्तरमानुषमेकत्र कृतपलालसंस्तारमन्यत्र विवृतकालिङ्गपुञ्जमपरत्र च खण्डभाण्डकोद्भासितैः चुल्लकमालोक्य नन्वेवमिह संवृत्तिश्चेवश्यमास्ते कश्चिदतः स यावदायाति तावद्वहिरेव तिष्ठामीति चिन्तासमसमयमाजगाम परमेकतो मानुषाकृतिः श्वापदपशुरशृङ्गापुच्छोऽनडान दिवसदृश्यो भूतविशेषश्चैतन्यवानुपलपुत्रकः परुषहलमुखविपाटितया पृथिव्या प्रदत्तशाप इव स्फुटिताग्रचरणस्तृणकुलानि गोरूपकैश्चारयत्यविरतमग्नाविति क्रोधान्मारुतविलग्नः शालिमलनोच्छलितपलालदलशकलकैर्गृहीत इव कूर्चकेशेषु हरिद्राफलाष्ठीलगुलिकाभिरिव लागलकुशकुठारीकलनकिणग्रन्थिभिः स्थपुटितकठोरकरतलो मस्तकाहितचारिभारकः स्थूलया च दुर्भवलितया रज्वा वनडपरिधानः स्कन्धीकृतजरत्कम्बलीखण्डो दण्डपाणिः पामरः। पश्यामि च तदन्तिके वामकरगृहीतमविपुलपलाशतरुवल्कचीरिकयावनद्धचरणं तमेव परमुत्तमं पतत्रिणां कीरम् । आलोकिते च तस्मिन् मृतोज्जीवित इवाहमानन्देन विकसितविलोचनो विशालया पुलकसम्पदा परीतमूर्तिरन्य एव संभूतवान् । अथासौ पामरः प्राङ्गणक एवोत्तार्य प्रवेश्य चान्तश्चारिभारकं तत्रैव बन्धनरज्जुवलये तमप्याबध्य विहङ्गपुङ्गवमागत्य ममांतिके स्कन्धादाकृष्य कम्बलिमुपाविशत् । लग्नश्च सदन्तनिष्कर्ष द्वाभ्यामपि कराभ्यां शिरः कण्डूयितुं तथा भ्रातः ! कुतो ग्रामादागतोऽसीति मां पृच्छत्यन्तरा शिरःकण्डूयनसुखासिकासीत्कारमुन्मुचत्यन्तरा क्षेत्रे विशंति गोरूपकाणि हक्कयत्यन्तरा पुनरग्रे गृहीतमुक्तेन वचसा तमेव प्रश्नालापं निर्वाहयतीत्येवमज्ञतया ग्रामेयकस्वभावतया वा मन्मनः कर्थितवान् । अहमप्यहो सेयमधुना पामरावधीरिका नाम भवतु । व्यर्थपरिणामया किमस्य वा स्वरूपचिन्तया, तावद्भावयामि स्वकीयं कार्यमुपश्लोकनैकगम्या ग्राम्यजातिरिति व्यापाराकारवर्णनापूर्वमनुकूलाभिरुक्तिभिरमुं प्रसाद्य सुखसमाप्लावितामत्र वसतिं करोमि, तथावस्थितश्च पश्चादस्मिन्पतत्रिणि किमयमाचरतीति पश्यामि, पृच्छामि च शुकस्य लाभान्वयमस्य च प्रवृत्ति, गृह्णामि चैनमेतस्मादुपायैर्दैवतोद्धृतमेव लब्धं शुकराजमिति विनिश्चित्य तथाहृदयसूत्रितधिक्कारयुक्तैरावर्जनवचोभिरवस्थानदानाय तं प्रवर्तितवानस्मि । सोऽपि मे प्रसन्नमनोवृत्तिरवस्थितिं दत्वा संवृत्तायां रासभाश्रयोचितमौचित्यचि.
SR No.022655
Book TitleUdayasundari Katha
Original Sutra AuthorN/A
AuthorC D Dalal, Embar Krishnamacharya
PublisherCentral Library
Publication Year1920
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy