________________
३१
उदयसुन्दरी कथा। विलासपट्टिकामिव दक्षिणदिशोऽश्चलस्य, लावण्यपद्धतिमिव धरायाः, तीरचरसमीरणारणितसणबीजकोशिकाचक्रवालवाचालपालिभिः क्षेत्रैरुभयतोरम्यामसमशरनिवासनिर्भराविरलतरुनिकुञ्जराजिभिरभिरामरोधसमसीमप्रसरां भगवतस्तिग्मत्विषो दुहितरं तामतिप्रसिद्धनामवती तापीतिमहासरितमद्राक्षम् ।
देवी भानुमतः सुतेयमनया मुक्तामणिस्वच्छया
कृत्वा तं प्रतिबोध्य चण्डमहसं कुर्मः स्वरक्षामिति । ध्वान्तैर्या पुलिनोपरूढविटपानम्रप्रवालस्फुट
___ त्पुष्पामोदमधुव्रताकृतिधरैः तृप्ता समासेव्यते ॥ अपि च ।
या महासिन्धुरुष्णांशुप्रसूताप्येतदद्भुतम् ।
सदृशी हन्त शीतांशोः शैत्येन पयसामभूत् ॥ दृष्ट्वा च तां सविस्मयं आः! सुदूरमागतोऽस्मि नन्दावटपुरादियं भगवती दशभिर्योजनैराख्यायते सिन्धुरहो मे प्रवृत्तिराग्रहस्य भवतु किमनेन प्रस्तुतं तमेव गवेषयामि तावदित्युभयतीरवर्तिषु तत्र घनपत्रिणां पेटकेषु निपुणं निक्षिप्य चक्षुरालोक्यमानोऽपि समन्तान्नसन्कापि दृष्टः शकुनिरितश्च भगवान्भुवनैकचक्षुरादित्यः संवृत्य दिवसविस्तारमपरस्यां दिशि प्रयातवान् । अथ तथा वृथागते क्लेशेऽहमुन्मुच्य सरलं विषादसूत्कारमन्तःकरण एवं भावितवान् । हा ! कष्टमविमृष्टेन पथाऽद्य मया क्लेशितोऽयमात्मा । यद्वा साध्यमसाध्यं च विषयमनालोच्य विचरतां विफलीभवत्येव पुंसां प्रयासस्तदेतदतिमहीयसो मोहस्य विलसितं यस्मादेवमुत्पद्यते विवेकिनामप्येकहेलयैव परिभ्रंशो मतेः। ____ अन्यथा किमयमीदृशी न मे संवित्तियत्किलासौ पक्षी, पक्षिणस्तु खेचरीभवन्ति, खेचरा हि न कुतश्चिदुपायादृते क्षितिचराणामगोचरा एव , तावत्सन्दिग्धसिद्धिः प्रथममेव पाशकादिसदुपायः परिहृतः । पुनश्चैत्यान्तिकादुड्डीय निर्गते तस्मिन् किमिति मे पृष्ठलग्नस्यामुना संरम्भेण कुतश्चिनिष्फलतया लोकेषु कथ्यमानोऽप्यसौ ब्रीडाकरो व्यतिकरः । किमन्यदात्मनोऽपि लजितोऽस्मि । तदस्तु यवृत्तं वृत्तमेव । ततः संप्रत्यपरमालोच्यते यन्न तावदिह मन्ये ग्रामटिका नेदीयसी काचिन्तिमश्चायमञ्चलो दिनस्य । निशाप्यन्धकारवती। बाढमवि. दितश्चैव विभागो मार्गस्य। निस्सखश्चाहम् । अवेला च पान्थजनोपलब्धेस्तदनैव कुत्रापि सवासरशेषामिमां निशामतिवाहयामीति निश्चित्य सर्वतो भालयन्स